________________
देवीपुराणम्
अव्यक्त-व्यक्त-सद्भाव-भावाभावरताय च । सर्वान्' न वेद्मि देवेश गुरणांस्ते मधुसूदन ॥४८॥ प्रार्तस्य मे सुदीनस्य दयां त्वं कुरु केशव । एवमुक्तो हरिस्तुष्टो भुञ्ज स्वर्ग यथेप्सया ॥४६॥ अचलस्त्वं शिवे देव्यामन्येषामजयः सदा। एवं दत्वा वरं तस्य विष्णुरन्तरधीयत ॥५०॥ स चाप्यसुरशार्दूलो गतो द्वीपं कुशाह्वयम् । यत्र सा वर्तते तस्य नाम्ना चन्द्रवती प्रिया ॥५१॥ तमायान्तं तु सा श्रुत्वा लब्ध्वा लाभं महाधनम् । महोत्सवं तु ते चाह्यन्तःपुरनिवासिनः ॥५२॥ अकालकौमुदी चैव पुरद्वाराणि शोभिरे। विचित्र-चित्र-वस्त्रैश्च स्वनज-यंजनैस्तथा ॥५३॥ रचिताश्चक्रदोलाश्च धारायन्त्रगृहाणि च । पुष्करिण्यः कृता हैमा राजतास्ताम्रजाः पराः ॥५४॥ कर्पूरोदकपूर्णास्ताः कुङ्क मेन सुरञ्जिताः । क्रीडन्ते प्रमदास्तत्र प्रहृष्टा यौवनोत्कटाः ॥५५॥ विधि शोभया चास्य तदीयं सुपुरोत्तमम् । तत्पुरं चन्द्र शोभं च विराजन्ति नराधिप ॥५६॥ एवंविधेऽत्र जद्राजा दानवेन्द्रः पुरन्दर। ययैव' द्विज पङ घाश्व वेदोद्गीरित अाननाः ॥५७॥ स्त्रीजनं सुमनोहष्टं दधिदूर्वांक्षतान्वितम् । शङ खदर्पणहस्तञ्च १२ वेण्वाद्यमशुभान्तकम् ॥८॥ शीतलः सुमनोवायु मेघाः पूर्वदिशोऽनुगाः१३ । पत्रिणः सुसुधारावाः१४ सतेजाश्च १५ सदा ग्रहाः ॥५६॥ फल पुष्प लता वृक्ष-गतरेणु विमाननाः१६ । तोयपूर्णापगाः सर्वाः कूपाः' स्वादुजलोदकाः ॥६०॥ दोधिकाः शतप्सङ ख्याताः स्वभावप्रकृतिस्थिताः । पथि पश्यन्ति तस्येष्टा जयशब्दं वदन्ति च ॥६१॥ लग्न-वन्द-रवोद घुष्टं पटु-मेरो-निनादितम् । शङ ख-वेणु-मदङ्ग श्च पटहैश्च रवाकुलम् ॥६२॥ कंसकंसालवाद्य श्च मुरजः काहलैस्तथा । अनेक-वाद्य-विन्यासः स्वर्भू-पाताल-पूरकः ॥६३॥ एवंविधपुरे राजा सुतिथि 'करणान्विते । पूजयन् पौरसङघांश्च द्विजाँश्च विविधैर्धनैः ॥६४॥ वद्धानुसम्मतो भूत्वा स विवेशात्ममन्दिरम् । तत्र बन्धुजनैः२२ सर्वैराशिभिरभिनन्दितः ॥६५॥ तेनापि तेषु सत्कारैर्यथावच्च२४ क्रमागतैः । पूजिता गृहपालाश्च पुरपालास्तथैव च ॥६६॥ देवताराधने सक्तः२५ स तथैव पुरःस्थितः । कृत्वा नारायणीमा मणि-मौक्तिक-भूषिताम् ॥६७॥
१. सत्यं क, ग। २. अबलस्तं ख । ३. दनुशार्दूलो क ग। ४. तिष्ठते ख । नाम्ना चण्डमती क । ५. महाबलम् क, ग। ६. अण्डजैः कोपजस्तथा क, ग । अन्तराष्ट्र जैस्तथा-ख पुस्तकस्य पाठान्तरे। ७. दिवद्धिशोभयास्पद्धि क ग। ८. तत्पुरोत्तमम् क, ग। ६. व्रजेद्राजा क, ग। १०. यत्ते च, ख । । ११. सुजनं सुमनं दृष्टं क। १२. वेश्मान्त ख। १३. दिशानुगाः क, ग १४. स्वसुरारावा: क स्वसुखानास १५. सूतेजाश्च-ग। १६. दिगानगः क । दिगानना: ग १७. कृष्णा: ख । १८. नग्नवन्दरवाघुष्ट क १६. शब्दैश्च क ग २०. एवं विधे पूरे क । २१. स्वतिथौ क। २२. वृद्ध जनैः ग । २३. ते स्व क। २४. यथारूढ़ क ग । २५. राधनासक्त: क, ग।