________________
देवीपुराणम्
अस्माकं शिवविष्णोश्च शक्तिराद्या परापरम्' । विश्वरूपा महादेवी त्वं सजस्व सुखावहाम् ॥३३॥
इन्द्र उवाच । परा वा अपरा वाऽथ तथा चैव परापरा । केन विज्ञायते देवी किं वा सा च तथोत्तमा ॥३४॥ त्वं परश्चापरो' देव तथा चैव परापरः। पूज्यो ध्येयश्च वन्द्यश्च नान्यं वेद्मि द्विजोत्तम ॥३५॥
ब्रह्मोवाच । सत्यमेतत् सुरश्रेष्ठ तथापि कथयामि ते । प्रासीद् घोरो महादैत्यः सर्वदेवविमर्दकः ॥३६॥ विद्यावांस्तपवांश्चैव बलवान् बुद्धिशास्त्रवान् । महापदाति-सम्पन्नः कोट्यायुत-गजान्वितः ॥३७॥ तस्याज्ञात्ति नः सर्वे स च सर्वेषु भावितः । तेन प्राराधितः पूर्व नृपो देवो जनार्दनः ॥३८॥ प्रभूतेनेव कालेन तुष्टस्तस्य खगासनः । प्रयच्छति वरं तुष्टः पृथिव्यामेकराड् भव ॥३६॥ न तं गृह्णाति दैत्येन्द्रो भूयो भूयोऽथ तोष्यति । परमष्टाङ्गदेवस्य भक्तिमेकान्तु याचते ॥४०॥ तथापि कृपयाविष्ट : पीतवासाः सुराधिपः । प्रददौ तस्य दैत्यस्य यथेप्सितं वरं नृप ॥४१॥ अजेयो देवसङ घस्य मम तुल्यपराक्रमः । स्वर्गभूसप्तपातालान् भुञ्ज त्वं तपसोत्कटः ॥४२॥
ततः प्रणम्य भक्त्याऽसौ लब्ध्वा च वरमुत्तमन् । स्तवेन स्तवीत' विष्णु कृतार्थो वरपालने ॥४३॥
घोर उवाच। नमस्ते पीतवासाय अजिताय पराय च । शंख-चक्र-गदा-धारि-वनमाला-धराय च ॥४४॥ ईप्सितार्थ-प्रदानाय सर्वदेव-नुताय च । वेद-वेदाङ्ग-भावाय वेदगर्भाय वै नमः ॥४५॥ लक्ष्मीनिवास देवेश त्राहि मां भवसागरात्' । अनेकानेक-रूपाय बहुरूप-रताय च ॥४६॥ विश्वरूप-स्वरूपाय अहताय-हताय' च । तेजोधाम महातेजः सर्वदेवोत्तमाय च ॥४७॥
१. परापरम् क।
२. मिश्ररूपां क, ग। ३. जपस्व ग।
४. तिर्यक् पशु (सु) खाय च क । ६. सत्त्ववान्- खपुस्तकस्य पाठान्तरे । बुद्धिशस्त्रवान्-ग । ८. स्तुवते-ग।
६.गदाधार-ग। ११. अकृताय कृताय-क ग ।
५. परा अपरो क ग। ७, मत् ख-पु० पाठान्तरे। १०, भवनाशन क ग ।