SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः मुनीनां प्रतिपूजान्तु श्रासनार्घ्यफलाम्बुभिः । यथा ऋत्विग्गुरुश्चैव नृप प्राचार्यबान्धवाः ॥१७॥ तपस्वी पूजनीयास्तु ये चान्ये गृहमागताः । ततो नृपो मुदा युक्तः पृच्छते वेदजं विधिम् ॥१८॥ नृपवाहन उवाच I भगवन् कर्मणा केन विद्याधरपतिर्भवेत् । भूतवानचले' तस्मिन्नेतदाख्याहि मे प्रभो ॥१६॥ अगस्त्य उवाच । शिवेन या पुरा विद्या विष्णोर्दत्ताऽथ विष्णुना । पितामहस्य तेनापि शक्रस्य प्रतिपादिता ॥२०॥ यथा वत्स विधानेन सर्वकामार्थसाधिका । धर्मदा मोक्षदा देवी तथा मे गदतः श्रृणु ॥२१॥ कृत्वा क्रतुशतं विधिवद् दिवं प्राप्तो यदा हरिः । ब्रह्मा ऋषिवरैर्युक्तो गतास्तद्दर्शनाय वै ॥ २२ ॥ शक्र ेण च समायान्तं दृष्ट्वा देवं पितामहम् । त्यक्त्वा सिहासनं तूर्ण दण्डवत् पतितो भुवि ॥२३॥ चरणौ पूजयित्वा स तुतोष कमलासनम् । स्तोत्रेणानेन नृपते प्रजेशं विश्वभावनम् ॥२४॥ इन्द्र उवाच । नमस्ते वेदगर्भाय उत्पत्ति-स्थिति-हेतवे । संहारहेतवे देव त्रिगुणाय त्रिमूर्त्तये ॥ २५॥ निर्गुणाय गुणातीत शिवाय परमात्मने । अनादि रादि - मध्यान्स -- विश्वमूर्त्ते भवाय च ॥ अद्य मे सफलं जन्म क्रतवः फलदा मम ॥२६॥ त्वदर्शनेन देवेश विपाप्माहमसंशयम् । सर्वकामप्रदं देव श्रमोघं तव दर्शनम् ॥२७॥ तथापि हि सुरश्रेष्ठ तव पादेऽचला मतिः । च्यवनं न च स्वर्गान्मे तथा त्वं वरदो भव ॥२८॥ एवमुक्तस्तु इन्द्र ेण ब्रह्मा विस्मयमागतः । अनेकानि सहस्राणि मम भक्तिरतानि च ॥ २६॥ वरदान - प्रहृष्टानि बाधयन्ति दिवौकसः । तदा च मां कदा विन्ध्यादयमेव सुराधिपः ॥३०॥ विध्नते वरपुष्टाङ्गः किं वा भक्तिरतोऽथवा । द्विजवंश - समुत्पन्नः धर्मात्मा वेदसद्भाव न तु विध्नते क्वचित् । एवं मत्वा ततस्तस्य सुराणां पूजने रतः ॥३१॥ वरदानं हि चिन्तते ॥३२॥ १. स्वगृहमागताशयाः ख । स्वगृहमागतान् यान् ग। ३. भूतो वा न चलेत् क, ग । ६. रादि - ग पुस्तके नास्ति । ८. वेदात्मा क । धर्मार्थ ग । ४. अगस्ति क.ग । तथा क ग । -61 २. विद्यजंक, ग । ५. यथा-क | ८. कदाचित् स्यादक, ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy