________________
द्वितीयोऽध्यायः।
कामिकां साधयित्वा तु विद्यां सर्वार्थसाधनीम् । नृपवाहनो महात्मा अगस्त्यस्याश्रमं गतः ॥१॥ यत्र वेदध्वनेः शब्दः श्रेयते पुण्यकर्मणाम् । वेदाभ्यासरता यत्र ऋषयो धर्मचारिणः ॥२॥ विद्यावेदकवेत्तारो यत्र सिद्धा ह्यनेकशः । विमुक्ता'दुस्त्यजैर्दोषैर्यत्रतिष्ठन्तिजन्तवः ॥३॥ यत्र रोगभयं नास्ति यत्र प्रीतिरनुत्तमा । यत्र मातङ्गसिंहाना' मेकत्रैवाभवद्गृहम् ॥४॥ अश्वाश्च महिषैर्यत्र क्रोडन्ते सहिताः सदा । विरुद्धान्यपि सत्त्वानि रमन्ते एकतः सदा ॥५॥ यं सम्प्राप्य गताः सर्वे पापिष्ठा अपि सत्क्रियाम् । ऋषयो ह्यपवर्गाय तपस्तेपुर्मुमुक्षवः ॥६॥ सनकः सनत्कुमारश्च नारदात्रेयगोतमाः । पुलस्त्यः पुलहो भानुः शङ्खो जाबालिपाणिनी ॥७॥ भृग्वङ्गिरसवासिष्ठमाण्डव्या ऋषिसत्तमाः । शाण्डिल्यो महर्षिर्वह्निरन्येऽपि मुनिपुङ्गवाः ॥८॥ शौर्य-धैर्य-बलोपेता ज्ञान-निर्दग्ध-किल्विषाः । एकभक्ता ह्यभोक्तारों नक्तोपासनतत्पराः ॥६॥ एकान्तरोपवासाश्च त्रिरात्रपञ्चरात्र्यदाः । दशरात्रभुजश्चान्ये पक्ष-मास-भुजोऽपरे ॥१०॥ क्षीरपाः फलमूलादः कन्दपत्राशनाः परे । संवत्सरान्तरकादा' धात्री विल्वादिभोजनाः ॥११॥ शाक-यावक-गोमूत्र-गोमयाहारकाः परे । स्नान-पूजा-जपासक्ता होमसक्ता विमुक्तये ॥१२॥ ब्रह्म-विष्णु-शिव-स्कन्द-उमा-दुर्गाप्रपूजने । निरता यत्र तिष्ठन्ति सर्व-सिद्धि-फलप्रदे ॥१३॥ तत्राश्रमपदे रम्ये चागस्त्यस्तिष्ठते मुनिः । येन वाक्पाशबन्धेन विन्ध्याद्रिः सुनियामितः ॥१४॥ रवि-मार्ग-विघातार्थ यः संवधितुमुद्यतः । यस्योदये भवेत् तोयं शुद्ध स्वच्छ सुनिर्मलम् ॥१५॥ प्रदुष्टं विष-भौजङ्ग-मेघनिःस्यन्ददूषितम् । तस्याश्रमं समासाद्य प्रणाम कृतवान् नृपः ॥१६॥
३. वसन्ते क । ६. शङ्खो जाबालिको मुनी क ।
१. द्वंदजै0 क , ग २. सिद्धानां क। ४. सर्वेऽति पापाऽस्ति क, ग। ५. सपन्ते तेह स्वर्गिणः क, ग ७. न भोक्तारो क, ग। ८. त्रिरात्र० क, ग। ६. मूलादाः ख ।
१०. संवत्सरैकान्तरादा:-क, ग।