________________
देवीपुराणम्
११
न हि' पच्छाम्यहञ्चान्यं कुशद्विपस्य चोत्तमम् । एतद् राज्यश्च स्वर्गश्च यत्र पूज्यामि केशवम् ॥४॥ एवं सम्बोधयन् पुत्र राज्यकामं सुराधिप । प्रथामात्यो गतस्तस्य सुषेणो नाम दानवः ॥८॥ सुतस्य चित्त सदभावं कथयाम्धसुराधिपः । स तं प्राह यथामन्त्री सर्व विद्यार्थपारगः ॥८६॥
सुषेण उवाच स्वचक्रे रणव निर्जित्य सन्तुष्टः पृथिवीपतिः । समृद्ध धनराष्टं तु क्षिप्रं नाशमुपैति हि ॥७॥ तस्मान्नृपेण योग्येन सम्पत्तेर्नयवेदिना । परराष्ट्रसमाकाङ्क्षा कर्त्तव्या श्रियमिच्छता ॥८॥ वल्कलादानमिच्छन्ति मुनयो वनमाश्रिताः । न हि सामग्र्यमुक्तास्तु नृपा ये वसुधाधिपाः ।।
पालयन्ति विना दण्डैर्महीं शम्भुबलादपि ॥६॥ किन्तु सत्यव्र तो देवः केशवाराधने रतः । तस्य प्रसादसम्पन्नो लब्धादेशो रिपून्१ जहि ॥१॥ मन्त्रिवाक्यानलोत्थेन उद्योतितवसु प्रति१२ । मति निव नाथस्य व्रताराधनमाययौ ॥२॥ पुष्यके 3 द्वादशी पुण्या सर्व पाप निबर्हगा'४ । कृत्वा वा तेन सा शक्र घृतपात्रप्रदायिना ॥३॥ तदा प्रत्यक्षतस्तस्य देवदेवो जनार्दनः । ददर्श स्वां तनु शुभ्रां पीतवासाश्चतुर्भुजः ॥१४॥ तं दृष्ट्वा स महाघोरः१५ स्तवेन स्तवते हरिम् ॥६५॥
घोर उवाच नमस्ते पीतवासाय शङ्खचक्रधराय च । गदाशार्गासिधाराय सर्वदेवनुताय च ॥६॥ वामनाय अघोराय'६ त्रिविक्रमधराय च । मधुसूदन-दैत्यादि स्कन्दाय ७ श्रीधराय च ॥१७॥ तव तेजः प्रसादेन सर्वान् शत्रून् यथा विभो । विजयामि यथा स्वर्गे तथा कुरू सुरेश्वर ॥८॥ तस्य कारुण्यतो ज्ञात्वा तमेवं प्रतिपादितम् । दुष्टानां दण्डनं धर्मः पूजितस्य च पूजनम् ॥६॥ न्यायेन कोषसंवृद्धिमित्ररक्षा अरेर्वधः । एवं तस्य वरं दत्त्वा भूयोऽिप गतवान् हरिः ॥१००॥
१. इच्छाम्यह क ग । ४. महामन्त्री क। ७. ये वनाश्रिता: क ग । १०. महीशास्तु मनाक क ग । १३. पुष्प क ग। १६. अमोघाय क, ग ।
२. सम्बोधयेत् ख । ५. समृद्धधनराष्ट्रस्तु ख ग । ८. युक्तास्तु क। ११. लब्धदेशोरिपु क ग । १४. निवर्हणो क ग । १७. स्कन्द त्वं ग।
३. कथयेत् सोऽसुराधिपः क ग । ६. पराकाँक्षा क । ६. नृप ख। १२. उद्योतेने समंतत: क ग । १५. सहसा धोरः क, ग। १८. तत्सर्वं क।