SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ ४६० अष्टाविंशत्यधिकशततमोऽध्यायः बहुभि स्वजनैः स्निग्धै भृत्यदासः'समाश्रितः । इत्येभिः सहितः सर्वैः श्रीमच्छिवपुरे ब्रजेत् ॥४०॥ महाविमानरारूढः सर्वकामसमन्वितः । तत्र भुक्त्वा महाभोग यावदाचन्द्रपावकम् ॥४१॥ दाता हर्ता च कर्ता च यावत्साक्षाल्लये महत् । . __ प्रलयान्ते ततः ज्ञानं प्राप्य योगमनुत्तमम् ॥४२॥ ततो देव्या' प्रसादेन मुच्यते नात्र संशयः । यस्मादवगतं कुर्यात् देव्याः पुस्तकवाचनम् ॥४३॥ भोगापवर्गफलदं शिवभक्त्या दिने दिने । न मारी न च दुर्भिक्षं न रक्षांसि न व्याधयः ॥४४॥ नाकाले म्रियते राजा हन्यते न च शक्तिभिः । शृणोति यश्च सततं शिवधर्म नराधिपः ॥४५॥ तत्र देशे महापुण्ये देव्याः सन्निहिता नृप । श्रुत्वा सकृन्निगदतो मनोयोगान्नराधिप ॥४६॥ शिवः सहोम या तत्र क्रीडते भक्तिमतां पुरे । ददाति सर्वकामानि मनसेप्सितफलानि च ॥४७॥ सकृच्छ्र त्वा महापुण्यं प्रतिष्ठा याज्ञिकं नृप । हेमन्ते ब्रह्मलोकं तु शिशिरे विष्णुना सह ॥४८॥ तस्मिन् दिने महापुण्ये तस्य चन्द्रमसो भवेत् । इह भुक्त्वाखिलान् भोगान् परिवारेण स नृपः ॥४६॥ अन्ते देव्या पुरवरे शिवेन विद्यु ता सह । क्रीडते विपुल गर्यावदाचन्द्रतारकम् ॥५०॥ वसन्ते भूष्यते देवी उमा सर्वसुखप्रदा। निदाघे वहि लॊकन्तु सर्वकामसमन्वितम् ॥५१॥ तस्मिन् भोगान् महान् भुक्त्वा देवीलोके महीयते । प्रावृट् काले रुद्रलोकं श्रुणुयाद् याति पार्थिवः ॥५२॥ शरत् सर्वानवाप्नोति कामानराज्यं नृपोत्तम । त्रि: श्रुत्वा भक्तिमास्थाय मुच्यते सर्वपातकैः ॥५३॥ विशुद्धश्च भवेद्वंशः सर्वकामफलावहः । पंच श्रुत्वा महाध्यायो स्वर्गलोके महीयते ॥५४॥ १. मर्त्यदासः क। ३. परमेशप्रसादेन क । ५. क ग पुस्तके नास्ति पद्यद्वयम् । २. इच्छया शिवमन्दिरे क। ४. ख पुस्तके पद्यद्वयं नास्ति । ६. ब्रह्मलोकस्तु ख ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy