SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ४५६ देवोपुराणम् मुने धर्मप्रवाहस्य उपकाराय बुद्धिमान् । यथा प्रवत्तितो धर्मो अधर्म च परित्यजेत् ॥२७॥ लोभाद्यान्न वाच्येदं देव्याः शास्त्रं शिवात्मकम् । वाचनात्तु जगच्छान्तिरवधार्य दिने दिने ॥२८॥ गच्छेयुः कुशपुष्पार्थ शिवोमापूजनाय च । ततः शास्त्रं समाप्यं तु पूजां कृत्वा विशेषतः ॥२६॥ देव्या विद्यागुरुणां च भक्त्या च शिवयोगिनाम् । कन्यका द्विजबन्धूनामन्येषामपि बुद्धिमान् ॥३०॥ भोजनं कल्पयेच्चैषां दोनार्थानां च सर्वशः । मित्रस्व कुलसाधूनामन्ते भृत्यजनस्य च ॥३१॥ गुरवे दक्षिणां दद्याच्छिवो गोमियुनं शुभम् । वस्त्र युग्मांगु लोयकं घृतपूर्ण तु भोजनम् ॥३२॥ वाचकाय प्रदातव्यं दक्षिणा पूर्वभाषिता । अभाषितस्य दातव्या गुरोरर्धेन दक्षिणा ॥३३॥ शेषाणां च यथाशक्त्या दक्षिणां शिवयोगिनान् । दद्यात् प्रबोधयेत् पश्चात् प्रदीपादेः शतं बुधः ॥३४॥ वितानश्च ध्वज देयं देवी देवस्य भोजनम् । यथा मन्त्रवतः कार्य पूजा नार्चा विवजिता ॥३५॥ निवेदयेच्छिवे देव्य अशेषं पुष्पवादिनान् । ज्ञानं पुण्यं महाशान्ति श्रवणान्नात्र संशयः ५ ॥३६॥ एवमुद्योतनं कृत्वा देव्याः शास्त्रस्य भक्तितः । शिव - दोप - प्रदाता च प्रनष्ट-तम-संचयः ॥३७॥ विधूतपापकलिलो विशुद्धस्ते न संशयः । भवन्ति सर्वलोकास्तु भाविता देव योनयः ॥३८॥ अशेषपापनिर्मुक्तः शृणु यत् फलमाप्नुयात् । कुले निशंकमुद्धृत्य भार्या पुत्रादिभिर्यं तः ॥३६॥ १. श्वेत क ग। ३. क ग पुस्तके श्लोकत्रयं नास्ति । ५. ततः स्यादक्षयफलम् क ग । २. सुभाजनम् क । ४. पुण्य वारिणा क।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy