________________
४५८
अष्टाविंशत्यधिकशततमोऽध्यायः
विद्ध कुसुमरक्त वा प्राकार शिखरान्वितम् । चतुर्भिश्चन्द्रकैर्युक्त पंचवणः सुशोभनैः ॥११॥
किंकिणीरव' कोपेतः चतुष्कोण-समाश्रितः । गिरिप्राकारशिखरैः सुलक्ष : पंच वर्णकः ॥
सर्ववस्त्रसमुद्भ तैः कन्दुकैश्च प्रलम्विभिः ॥१२॥ इत्थमाश्रवणं कृत्वा विन्यसेत् दण्डकासने । तस्योपरि महाशास्त्रं देव्याख्यं स्थाप्य पूजयेत् ॥१३॥ विद्यादानोपहारेण' शोभां कृत्वा प्रयत्नतः । गन्धादिवासितकरः श्रीमदासनसंस्थितः ॥१४॥
भावयित्वा शिवं देव्याः शास्त्रऽस्मिन् परमेश्वरम् ।
स्वयं तिष्ठति देवेशी पति देवनमस्कृतन् ॥१५॥ स्वकायेन तीर्थेषु नरेन्द्र-भवनेषु च । भावयेत्परमं धर्म गृहग्रामे पुरेषु च ॥१६॥ श्रोतारं च गुरुध्यान शिवं ध्यात्वा यथाविधिः । गन्धपुष्पैश्च सम्भारः प्रत्यहं तु युगे युगे ॥१७॥ पूजयित्वा नमित्वा च कृतांजलिपुराः स्थिता । सर्वे नोचासनाः शान्ता यथावृद्ध क्रमानुगाः ॥१८॥ धर्मतः श्रोतुमिच्छन्ति कथान्तरविजिताः । ज्ञानारम्भे समाप्तौ च श्रोतृभिर्वा च केन च ॥१६॥
देव्या मंत्रं शिवाख्यं च उच्चार्य सर्वसिद्धये।
प्रानयेद् धूपपुष्पाद्य एककः श्रावकः क्रमात् ॥२०॥ सर्वसाधुजनार्थायः ज्ञानमन्त्रप्रदोऽपि वा । प्राचारेभ्यः करं दद्यात् वाचकः कुसुमत्रयम् ॥२१॥
तेऽपि तैरादिमध्यान्तैः कुयुः पूजां तु मस्तके ।
इति शक्त्या च भक्त्या च पूजां कृत्वा सदक्षिणाम् ॥२२॥ प्रवर्तयति यः कश्चित् देव्याः पुस्तक वाचनन् । सर्वसत्त्वोपकाराय प्रात्मनश्च विमुक्तये ॥२३॥ तस्य पुण्यफलं वक्ष्ये श्रोतृणां वाचकस्य च । धनमायुः प्रजा कोत्तिः प्रज्ञां बुद्धि प्रियं सुखम् ॥२४॥ इह सम्प्राप्य विपुलं देहान्ते शान्तिमाप्नुयात् । असम्पूज्य महाज्ञानं प्रदेशे चाप्यसंस्थिते ॥२५॥ वाच यन्नरकं याति तस्मात् संस्कृत्य वाचयेत् । प्रसम्पूज्य तया वाक्यं देवाग्निगुरुपन्निधौ ॥२६॥
१. वरकोपेतेः क ग। ३. यातां क । ५. ज्ञान क ग। ७. अपि वाच्यं क।
२. विद्यादानोपचारेण क ग । ४. सुकायेन'क। ६. आचान्तेभ्य: क ग।