________________
अष्टाविंशत्यधिकशततमोऽध्यायः ।
ब्रह्मोवाच । सर्वार्थसाधकं शास्त्रं ब्रह्मवक्त्रात् विनिसृतम् । तेनापि नृपशार्दूल कीतितं नरवाहने ॥१॥ इन्द्रण विधिना' प्राप्तमगस्त्येन तथागतम् । दशलक्षप्रमाणन्तु शिवो ब्रह्मणे प्रोक्तवान् ॥२॥
लब्ध शक्रस्य लोकस्य विद्या देवेन भाषितम् । घोरोत्पत्ति वधादीनि' देव्याराधनमुत्तमम् ॥ कर्मयोगश्च योगश्च चतुर्वर्गप्रसाधकम् ॥३॥ प्राय देव्यवतारं च वाचयेद् यः शृणोति वा । स संसाराद्विनिमुक्तः प्राप्नोति परमं पदम् ॥४॥ विद्यासिंहासने मध्ये वस्त्रपुष्पादि शोभिते । पूजयित्वा शिवं ज्ञातं शृणुयाद्वाचयेत् तथा ॥५॥ श्रीमदडासनं वापि कृत्वा हेमं सुशोभनम् ।
हेमपट्टपरिच्छन्नं नानारत्नविभूषितम् ॥६॥ राजतं ताम्र कास्यं वा ब्रह्मरीत्या विनिर्मितम् । तरुसारसमुद्भतं शृंगवंशादिसम्भवम् ॥७॥ रत्न हेमसमायुक्त शंखस्फटिक मोक्तिकः । यथासम्भव सम्भूतैरधश्चोवं विभूषितम् ॥८॥ समुत्कीर्ण विचित्रं च सूत्रचिन्ह निबन्धनम् । द्विगुणे द्विप्रमाणेषु पूर्णचन्द्रनिभेषु च ॥६॥ चित्रोत्कीर्ण सुवर्णेषु प्रतिपादेषु संस्थितम् । दुकूलं पट्टदेवांगं चित्रपट्टादिसम्भवम् ॥१०॥
१. ब्रह्मदक्षप्रजापतये शिवो ब्रह्मणि प्रोक्तवान् क ग । ३. मणि क । ५. अर्द्ध प्रमाणे क ग ।
२. घोरोत्पत्ति वधार्थांय क ग । ४. सूत्रचित्रम् क ।