SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ ४५६ सप्तविंशत्यधिकशततमोऽध्यायः अर्थकामो लभेदर्थ पुत्रकामो बहून् सुतान् । विद्यार्थी लभते विद्यां जयकामो लभेज्जयम् ॥२२५॥ यान् यान् कामान् प्रार्थयते मानवः संशितव्रतः । जपन स्तोत्रवरं पुण्यं सर्वमाप्नोति निश्चयात् ॥२२६॥ विदित: सर्वदेवानां मासस्यान्तरेण वै । सर्वपापविशुद्धात्मा गच्छते परमां गतिम् ॥२२७॥ पुण्यं यशस्यमायुष्यं सांख्ययोगसमन्वितम् । पठेद्वै श्रद्धया युक्तो अनन्त फलमश्नुते ॥२२८॥ प्रश्वमेध सहस्रस्य वाजपेयशतस्य च । फलं लभते धर्मात्मा यः पठेत् श्रद्धया द्विज' ॥२२६॥ दशानां राजसूयानामग्निष्टोमशतस्य च । कीर्तनारफलमाप्नोति इत्याह भगवान् शिवः ॥२३०॥ यत्पुण्यं सर्वतीर्थेषु गंगादीनां द्विजोत्तम । जपतः सर्वमाप्नोति प्राप्तो धर्मफलानि तु ॥२३१॥ अधृष्यः सर्वदेवानां ब्रह्मादीनां न संशयः । जीवेद् वर्षशतं साग्रं यः पठेत् सततं शुचिः ॥२३२॥ गोघ्नश्चैव कृतघ्नश्च ब्रह्महा गुरूतल्पगः । शरणागतधाती च मित्रदि सरसंघातकः ॥२३३॥ दुष्टकर्म समाचारो पितृहा मातृहा तथा । सकृदावर्तयेत् स्तोत्रं मुच्यते सर्वकिल्बिषात् ॥२३४॥ द्विरधीत्य दहेद्दोषान् सप्तजन्मकृतानपि । त्रिरावर्त्तयते यस्तु गाणपत्यमवाप्नुयात् ॥२३५॥ षण्मासात् सिद्विमाप्नोति मानवः संशितव्रतः। संवत्सरेण मुक्तात्मा योगसिद्धि परां लभेत् ॥२३६॥ शिवेन ब्रह्मणे प्रोक्त ब्रह्मा प्रोवाच विष्णवे ।विष्णुःप्रोवाच सोमाय सोमः प्रोवाच वायवे ॥२३७॥ वायुश्चैव हुताशाय हुताशाच्च मया गतम् । मयापि कथितं तुभ्यं निरुक्तं पापनाशनम् । पुराणं पावनं दिव्यं देवदेवेन भावितम् ॥२३८।। इति श्रीदेवीपुराणे देवदेवीसंवादे देवीस्तवराजो नाम सप्तविंशत्यधिक- शततमोऽध्यायः । १. श्रद्धयान्बित क ग। ३. मित्रसंघातघातकः क । ५. समागम्य ततः परम् क ग । २. सर्वभूतानां क। ४. मृत्यवे क ग । ६. इत्याद्य स्तवराजः समाप्त: क ग।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy