________________
देवीपुराणम्
अहमदृश्यमूत्तिश्च दृश्यादृश्यञ्च उच्यसे । विरजोऽहं महाभागे सम्राट् भद्रे अनिन्दिते ॥ २०६॥ वाक्पतिश्वाप्यहं कृष्णे त्वं वाग्मी ऋषिभिः स्मृता । अहं स्रष्टा च भती च' त्वन्तु मृत्युः सदानचे ॥ २९०॥ अहं रसयिता घ्राता त्वं रसो घ्राण एव च ।
अहं स्पर्शयिता कर्त्ता स्पर्शस्त्वं कर्म एव च ॥ २११ ॥ अहं वक्ता च भोक्ता त्वं बुद्धिर्गतिरेव च । श्रहं सर्वमिदं भूतं त्वञ्च देवि न संशयः ॥ २१२ ॥ त्वया मया च देवेशि श्रोतप्रोतमिदं जगत् । एकधा बहुधा चैव तथा शतसहस्रधा ॥२१३॥ देवदानवमर्त्येषु सकलेषु विशेषतः । निष्कलेषु च सर्वेषु प्रबुधेषु बुधेषु च ॥ २१४॥ अहं त्वञ्च विशालाक्षि सततं सुप्रतिष्ठितौ । ऐश्वर्यगुण सम्पन्नौ सर्वप्राणि व्यवस्थितौ ॥ २१५ ॥ क्रीडामि तं देवि त्वया सार्धं वरानने । मेरुमन्दरपृष्ठे च हिमवत्कन्दरेषु च ॥ २१६ ॥
४५५
स्कन्द उवाच ।
एवं स्तुता महादेवी शिवेन परमात्मना ।
तु नामभिर्दिव्यैः सर्वलोकेश्वरेश्वरी ॥२१७॥ एतद्धि सर्वमाख्यातं निरुक्तं पापप्रणाशनम् । य इदं धारयेत् स्तोत्र पवित्र लोकसम्मतम् ॥२१८॥
सजित्वा सर्वलोकानि शिवलोके महीयते । देव्याश्चैव भवेत्पुत्रो दीप्तकुण्डलभूषितः ॥२१॥ वरदः सर्वदेवानां देवदानवदर्पहा । श्रजितः सर्वं लोकेषु दुर्निरीक्ष्यो भयावहः ॥२२०॥ अक्षयः कामरूपश्च रुद्रसुतुर्महाबलः । पूज्यते सर्वलोकेषु शूलपाणिर्यथा शिवः ॥ २२१॥ यः पठेत्यलोकमेकन्तु पंच षटसप्त एववा । विमुक्तः सर्वपापेभ्यो न भूयो जन्म प्राप्नुयात् ॥२२२॥ इष्टांश्च लभते कामान् यः पठेच्च शृणोति वा । शुचिस्तु प्रयतो भूत्वा देवीदेवपरायणः ॥२२३॥ मोक्षार्थी लभते मोक्षं परे परमशोभनम् । सिद्धिकामोऽप्यवाप्नोति सिद्धिमिष्टां न संशयः ॥ २२४॥
१. कीर्तिश्च क ग ।