________________
सप्तविंशत्यधिकशततमोऽध्यायः
श्रहं बोजवरं श्रेष्ठं त्वन्तु क्षेत्रवरा स्मृता । श्रहं वृक्षपतिः सूक्ष्नस्त्वं वनस्पतिरुच्यते ॥ १६४ ॥ शेषमूत्तिरहं भद्र े फणोशपतिचेष्टिते । रेवती त्वं विशालाक्षि मदविभ्रान्तलोचने ॥१६५॥ मोक्षोऽहं त्रिदशश्रेष्ठे त्वं देवि परमा गतिः । अपांपतिरहं भद्र े त्वं देवि सरितांवरा ॥ १६६॥ asवाग्निरहं शुभ्र त्वन्तु दीप्तिरनेकशः । प्रजापतिरहं स्रष्टा त्वं प्रजा सृष्टिरेव च ॥ १६७॥ नागानामधिपश्चाहं पातालतलवासिनाम् । नागिनी नागकन्या त्वं फरणोच्छत्र विभूषिता ॥ १६८ ॥ निशाचरपतिश्चाह त्वं श्रेष्ठा रजनी स्मृता । कामोऽहं वामदेवी त्वं रतिः प्रीतिरेव च ॥ १६६ ॥ दुर्वारश्चाप्यहं क्रोधस्त्वं क्षमा मम धारिणी ।
૪૪
लोभो मोहतमश्चाहं त्वं तृष्णा तमसि स्मृता ॥ २००॥ तापसश्चाप्यहं देवि त्वं तपस्वि तपस्विनी । ककुद्रवान् वृषभश्चाहं त्वन्तु गौः क्षीरधारिणी ||२०१॥ वायुरप्यहमग्निश्च त्वं गतिर्मन्त्रसूचनी । अहं क्षपयिता लोके निर्ममा त्वं यशस्विनी ॥ २०२॥ नमो ह्यहं सर्वकार्येषु नीतिस्त्वं कमलेक्षणे । ग्रहमग्निश्च धूमश्च त्वमुष्ण ज्वाला एव च ॥ २०३ ॥ श्रहं संहारकर्ता च त्वं सृष्टिः सर्वदा शुभे ॥२०४॥
ग्रहं शुष्कः स्थिरश्चैव त्वमार्द्राजिलमेव च ।
स्रष्टाहं तव देवेशि त्वं भूतान् सृजसे सदा ॥२०५॥ शरीरी ह्यहं शरीरस्त्वंतु बुद्धीन्द्रियाणि च । श्रहं भोक्ता महादेवि त्वन्तु भोज्यं न संशयः ॥ २०६ ॥ पर्जन्योऽहं महातेजास्त्वन्तु विद्य ुन्महाचला । श्रहं कृतयुगे धर्मस्त्रता त्वं परिकीर्त्यसे ॥२०७॥ युगोऽहं द्वापरः श्रीमान् त्वं कलिः परमेश्वरि ।
प्रकाशश्चाप्यहं भद्रे पृथिवी त्वं निगद्यसे ॥२०८॥
१. मम चारिणी क ग ।
३. कग पुस्तके पंक्तिरियं नास्ति ।
२. संचयिता क ग ।