________________
देवीपुराणम्
जम्भनी शुम्भनी चैव काली गान्धारी एव च । महारूपा महातेजा विष्णु वक्त्रोद्भवा शुभा ॥१७५॥ वैरोचनी तथा त्वाष्ट्र विरजा कैटभेश्वरी । हेमवर्णा सुवर्णां च श्यामा दीप्तायतेक्षणा ॥ १७६ ॥ रतिः प्रीतिः कमलाक्षी दक्षिणामूर्तिरिष्यते ! सुकन्या महती चैव शालंकाय निरेव च ॥ १७७॥ कराली विकराली च सकला निष्फला तथा । सिनीवाली कुहुश्चैव राका चानुमती तथा ॥ १७८ ॥ तापनी वर्षरणी चैव विद्य ुज्जिहुवानलोद्भवा । देवदेवी महादेवी हिमवच्छैलराट् सुते ॥ १७६ ॥ विद्या सर्वविद्यानां सिद्धिनां सिद्धिरुत्तमा । श्रप्रमेयासि भूतानामिति मे निष्चिता मतिः ॥ १८०॥ देवदानवत्त्येषु तिर्यग्योनिगतेषु च । न तत् पश्यामि देवेशि यत् त्वया रहितं भवेत् ॥१८१ ॥ श्रहं ते हृदयं देवि त्वं नु मे हृदि संस्थिता । श्रहं तव पिता देवी त्वन्तु माता मम स्मृता ॥ १८२ ॥ अहं भ्रात्ता च भर्त्ता' च बन्धुर्गोप्ता तथैव च । त्वं मे भगिनी देवी पत्नी च परिकीर्त्यसे ॥१८३॥ ग्रहमिष्टो महायज्ञ पूर्त्त यज्ञस्त्वमुच्यसे । अहमग्निश्च होता च यजमानस्तथैव च ॥ १८४॥
स्वाहा स्वधा च शुभ्राणि त्वयि सर्व प्रतिष्ठितम् ।
अहं विष्णुर्महायज्ञो यज्ञमूत्तिस्त्वमुच्यसे ॥ १८५ ॥
अहं ग्रहपतिर चन्द्रस्त्व ं तु नक्षत्रमण्डलम् ।
पुरुषोऽहं वरारोहे प्रकृतिश्च त्वमुच्यसे ॥ १८६॥
सूर्यश्चाहं महादेवि त्वं प्रभा परमेश्वरी । ग्रहं सागरस्त्वक्षोभ्यस्त्वन्तु वेलोमिरेव च ॥ १८७॥ श्रहं ब्रह्मा सुरश्रेष्ठ सावित्री त्वं निगद्यसे । श्रहं विष्णुर्महावीर्यस्त्वं श्रीर्लोकभाविनी ॥ १८८ ॥ अहमिन्द्रो महातेजस्त्वं शची परमेश्वरी । अहं भृगुर्वसिष्ठश्च जमदग्निस्तदेवच ॥ १८६॥ त्वं विद्या रेणुका चैव श्ररुन्धती पतिव्रता । दिवसोऽहं वरारोहे रजनी त्वं निगद्यसे ॥ १६०॥ दिवसोsहं मुहूर्त्तन्तु त्वं सन्ध्याकाल एव च । श्रहं तेजोधिकः सूर्यः त्वं सुषमा निगद्यसे ॥१९१॥ वरुणोऽहं महातेजास्त्वन्तु गौरी प्रकीर्तिता । ग्रहं वैश्रवणो राजा यक्ष शो लोकपूजितः ॥ १६२ ॥ त्वन्तुः ऋद्धिर्महाभागा उपमा चाप्यनुत्तमा । श्रहं सेनापतिः स्कन्दो देवसेना त्वमुच्यसे ॥१९३॥
२. पूर्वयज्ञः क ग ।
१. कर्त्ता च क ।
३. कग पुस्तके पंक्तिरियं नास्ति ।
४५३