________________
देवीपुराणे
मातृसघं यमो नित्यं तुष्यते अविचारणात् । तस्य भोगं वर्णयितु मम वाणी न शक्नुयात् ॥५५॥ इहलोके शुभं भुक्त्वा तदन्ते शिवलोकतः । खट्वावधं तथा श्रुत्वा विनायकस्य जन्म च' ॥५६॥
मातृलोकमवाप्नोति क्रीडते च चिर सुखो।
देवी सम्पूजयित्वा तु विधिना नृपसत्तम ॥५७॥ प्रसादञ्च प्रकुर्वीत प्रत्यक्षा च भवेत् शिवा । सदाचारः शुभाहारः सर्वसंगविवर्जितः ॥८॥ वाचयन् पुराणमेत्तत्तु सर्वकाममवाप्नुयात् । वाचयन् शतमधंवा प्रत्यक्षं प्राप्नुयाच्छिवम् ॥५६॥
. एतच्चाभ्युदयपादं शतैस्त्रिभिन रोत्तमैः । ___ सहस्र दिशैर्वत्स कथितं सर्वसिद्धिदम् ॥६०॥
.. । ओं नमो दुर्गायै ।
इति श्री देवीपुराणे वाचनविधिर्नाम' अष्टाविंशत्यधिकशततमोऽध्यायः ॥ ... ॥ आद्य देव्यवतारे देवीपुराणं सम्पूर्णम् ॥ १. भवते विगतामयः क ग। . प्राद्ये देव्यवतारे देवीपुराणं समाप्तमिति क ग । ३. क ग समाप्तः सम्पूर्णम् ।