________________
सप्तविंशत्यधिकशततमोऽध्यायः
त्वं दिशो विदिशश्चैव प्रदितिर्दितिरेव च । चण्डिका चण्डकारी च चण्डरूपा च कीर्त्यसे ॥ १३६॥ घण्टारवा विरूपाक्षी शिखिपिच्छध्वज प्रिया' । शंखशूलगदाहस्ता महिषासुरर्माद्दनी ॥१३७॥ मातंगी मत्तमातंगी कौशिकी ब्रह्मवादिनी । जननी सिद्धसेनस्य उग्रतेज महाबला ॥ १३८ ॥ जया च विजया चैव विनता कद्र रेव च ।
धात्री विधात्री विक्रान्ता इच्छा मूर्च्छा च मूर्च्छनी ॥१३६॥
दमनी दामनी चैव छेदनी भेदनी तथा ।
वन्दनी वन्दिनी चैव अमृता सत्यवादिनी ॥ १४० ॥
घोररूपा च कापाली मानवी मानवप्रिया । २ मानसी मन्यमाना च मातृणां जननी तथा ॥ १४१ ॥ अघोरा घोररूपा च घोरा घोरतरा तथा । मृतसंजीवनी चैव विशल्यकरणी तथा ॥१४२॥ सञ्जीवनी श्रौषधी च त्वमेव परिपठ्यसे ।
૪૬ ૭
सन्ध्या चैव महासन्ध्या त्वं देवि परिकीर्तिता ॥१४३॥ हरणी हारणी चैव धरणी धारणी तथा ।
दिव्यमूत्तिर्महा मूत्ति रैश्वर्यमूत्तिरुच्यसे ॥ १४४॥
पाशहस्ता महाहस्ता कुमारी कलहप्रिया । संधिनी च विसंधि च मेनका उर्वशी तथा ।। १४५ || मायादेवी सुराणाञ्च त्वं देवी परिकीर्तिता । पुरा सुरगणाः सर्वे प्रसुरेन्द्रभयाद्दिताः ॥ १४६ ॥ त्वां जग्मुः शरणं देवा मत्पुरोगा वरानने । ततस्त्वां क्रोधसंतप्तां युगान्ताग्निसमप्रभाम् ॥१४७॥ देवानां तेजसावृत्यासृजद् विश्वेश्वरी तनुम् । महिषस्य वधार्थाय ज्वालामालेति विश्रुता ॥ १४८ ॥ हत्वा सुररिपून् सर्वान् शक्रो राजा नियोजित। विष्णुना च पुरा देवीं त्वामाराध्येति सुव्रते ॥ १४६ ॥ दानवा निहता सर्वे त्वया मायाविमोहिता । अवध्यः सर्वभूतानां पुत्रो वै कालनेमिनः ॥ १५० ॥
१. शिखपिजध्वजप्रिये क ।
३. घोरतरानना ।
२. क पुस्तके पंक्तिरियं नास्ति 1
४. कग पुस्तके श्लोकोऽयं नास्ति ।