SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् कंसश्च निहतो दैत्यः उग्रसेनसुतो बली । त्वं देवि सर्वभूतानां शरण्या भक्तिवत्सला ॥ १५१॥ अभया सर्वलोकस्य बुद्धिः शुद्धिश्च पठ्यते । छन्दसाञ्चैव गायत्री अनुष्टुप् त्रिष्टुब् एव च ॥१५२॥ पंक्तिश्चैव यतिश्चैव शंकुर्यष्टिस्तथैव च । त्वं देवि सर्वभूतानां हृदि नित्यं प्रतिष्ठिता ॥ १५३॥ त्राहि त्राहि सुरान् सर्वान् देत्यभूतान् समानुषान् । ज्योतिषां त्वं परं ज्योतिः सुव्रतानां गतिः शुभा ॥१५४॥ योगिनां योगसिद्धिश्च त्वमेव परिकीर्त्यसे । त्वं कृतज्ञा विधिज्ञा च सर्वज्ञा सर्ववित्तमा ।। १५५ ।। भूतविद् ब्रह्मविद् ज्येष्ठा कन्या कल्पासिरेव च । निद्रा मोहस्तथा ज्ञानं क्षुत्पिपासा तथैव च ।। १५६।। धर्मोऽधर्मं सुखं दुःखमलको लक्ष्मीरेव च । रेवती कालकरण च तथा दुष्टग्रहाश्च ये । १५७।। तृवा च तुष्टि कामस्य त्वया ह्य ुत्पादिता पुरा । हिरण्यवर्णे देवेशि नमस्ते स्कन्दपूजिते ॥ १५८ ॥ तरणी तारणी गुप्ते चलनी चालनी शुभे । किकिरणी चण्डनिर्घोषे क्रन्दनी क्रन्दन प्रिये ॥ १५६ ॥ ताडनी क्रन्तनी रौद्री गोप्त्री धात्री धनेश्वरी ।" खड्गिनी खड्गनिर्घोषे पूर्णमात्रा ' विशोषनी ॥ १६०॥ नारायणी च भूतानां प्राणिनां प्राणदा मता । " संक्रोधनी क्रोधहरा निष्क्रोधा क्रोधहारिणी ॥ १६१॥ १. वषट्कारस्तचैव च क । ३. कृतिज्ञा क । ५. ग पुस्तके पद्यानि खण्डितानि सन्ति । ७. क्रोधचारिनी क । २. त्रासि पासि क ग । ४. कचानिरेवच ख । ६. पूर्ण सागरशोषिनी ग । ४५१
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy