________________
देवीपुराणम्
४४६
कृष्णमूर्धा महामूर्धा घोरमूर्धा भयानना । घोरवक्त्रा महाजिह वा घोरवेगा' महाव्रता ॥११८॥ दीप्तास्था दीप्तनेत्रा चप्रचण्ड प्रहरणोद्यता । सुरभी सौरभेयी च उमा दुर्गा तथैव च ॥११॥ सर्ववादित्र निर्घोषैः२ सर्वप्रहरणोद्यता । कृष्णाम्बरधरा कृष्णा शायुधधनुर्धरा ॥१२०॥ त्रासनी मोहिनी चैव मृत्युरूपा भयावहा । भीषणी दानवेन्द्राणां तथा चैव भयङ्करी ॥१२१॥
अभया सर्वदेवानां पितॄणां मानुषामपि । पृथिवी केशिनी साध्वी मृत्युदेहजरादिका ॥१२२॥ रक्षा पवित्रा अक्षोभ्या ह्लादिनी मेखला तथा । कन्यादेवी सुरादेवी भीमादेवीति कीर्त्यसे ॥१२३॥ शाकम्भरी महाश्वेता धूम्रा धूम्र श्वरी तथा। वीरभद्रा सुभद्रा च मम देहाद्विनिःसृता ॥१२४॥ श्मशाने वससे नित्यं प्रदीप्ते चितिसंकुले। कपालहस्ता खट्वांगी सर्वलोकभयावहा ॥१२५॥
कान्तारवासिनी देवी विमाने चारुशोभने । श्रीः पद्मा योगमाता च योगमार्गानुसारिणी ॥१२६॥ धूमकेतुर्महाहास्यां कृतमेव युगक्षये । धूमवत्तिस्तथा ज्वाला अंगारिण्यस्तथोच्यसे ॥१२७॥ वेताली ब्रह्म वेताली महावेतालिरेव च ।
विद्याराज्ञी वराङ्गी च तथा माहेश्वरी मता ॥१२८॥ ब्रमण्या च शरण्या च भक्तानां भक्तवत्सला । त्वमेव मातरःसर्वा भूतमाता तथैव च ॥१२६॥ पर्वतेषु समुद्रषु दुर्गेषु विषमेषु च । चोरेषु चैव रक्षःसु तरक्ष णां भयेषु च ॥१३०॥ व्यालेभ्यो' दुष्टचित्तेभ्यः सर्वतः परिरक्षसि । सिंहव्याघ्रभये चैव समे निम्नोन्नते तथा ॥१३१॥ त्वं हि नः सर्वकार्येषु ददास्यभयदक्षिणाम् । वज्राशनिनिपातेषु तथा समरकंटके ॥१३२॥ गजेन्द्रदशनप्रोतो दष्टो ह्याशीविषेण वा । शृंखलावेष्टितग्रोवः पादयोरुभयोरपि ॥१३३॥ बद्धो वा कालपाशेन मृत्योर्वा वशमागतः । कीर्तनात् तव देवेशि मुच्यते नाना संशयः ॥१३४॥ भूतं भव्थं भविष्यश्च सांख्ययोगस्तयैव च। अध्यात्मश्चाधिभूतश्च त्वयि सर्व प्रतिष्ठितम् ॥१३५॥
१. घोरवेशा क ग । ३. क्षयङ्करी ग। ५. रक्ष मां क।
२. वादित्रहस्ता ख । ४. महादेवात् क ग। ६ .त्वं हिता क ग।