________________
४४८
सप्तविंशत्यधिकशततमोऽध्यायः
गायत्री च वरेण्या च तथैव च सरस्वती ।
कान्तास्ते कृत्स्नतो देशाः कथ्यमान् निबोध तान् ॥ १०१ ॥
नैमिषे दृश्यसे देवि कुरुक्षेत्रे च दृश्यते । त्वया क्रान्तास्त्रयो लोकाः स्त्रीरुपेण न संशयः ॥ १०२ ॥ अग्निहोत्र कुले पुण्ये सिद्धचारणसेविते । प्रग्नेः कोणे सुरावर्त्तेः सोमस्यैव च लक्षणे ॥ १०३ ॥ लोक्यधारिणी देवी त्वं हि विन्ध्यनिवासिनी ।
त्वन्तु मन्दाकिनी पुण्या मया च शिरसा धृता ।। १०४ ।। अष्टाशीति सहस्रं स्तु ऋषिभिरूर्ध्वतेजसः ।
स्तूयसे सततं देवि तपः सिद्धेस्तपोधनैः ॥ १०५ ॥ ।
॥११०॥
पादौ तु पृथिवीदेवि रोमाण्योषधिगुल्मकाः । गंगायमुनयोर्मध्ये त्वं हि त्रैलोक्यसंगमे ॥१०६॥ द्वौ भुजौ भद्रवान् शैलोद्वीपा : प्रत्यन्तवत्तनः । समुद्राः सरितचैव सिन्धुनद्यस्तथाविके ॥ १०७॥ सुरु सुभुजे शुभ्र सुजंचे शूलपाणिनी । बालार्कसमवर्णेन पूर्वायान्तु प्रदृश्यसे ॥ १०८ ॥ जीमूताञ्जनवर्णेन दक्षिणायान्तु दृश्यसे । पद्म- कुन्देन्दु वर्णेन पश्चिमायां तु दृश्यसे ॥ १०६ ॥ वैडूर्यस्य तु वर्णेन उत्तरायान्तु दृष्यसे । पर्वते मलयपृष्ठे चित्रकूटे तथा भवे निजि वेदर्भ ब्रह्मशीर्षे महोदरि । उत्कृष्टव्रते निरते शरण्ये ब्रह्मणः प्रिये ॥ १११ ॥ - त्वं हि नारायणी देवी चीरवल्कलधारिणी । दुर्गे दुर्गे तथा देवि तपस्तप्यति सुव्रते ॥ ११२ दिशो जंधे दिशो बाहू सुरुपे अमृतप्रिये । निशुम्भ अन्धकादीनामसुराणां भयंकरी ॥११३॥ कारनित्ये सावित्रि चतुर्वेदस्मृते युगे । कंसादीनां वधार्थाय उत्पन्ना लोकपावनी ॥११४॥ शरवर्षं वरेश्वापि पुलिन्देश्चापि पूज्यसे । विन्ध्यवासिनी वामौधे मोघे अम्बिके शुभे ॥ ११५ ॥ अष्टादशभुजंश्चैव नित्मं गगन चारिणी । ऋग्यजुः सामवेदैश्च तथा चाथर्ववेदः ॥ ११६ ॥ स्तूयसे सततं देवि तपः सिद्धेस्तपोधनैः । भीमवक्त्रा महावक्त्रा अनला कृष्णपिंगला ॥११७॥
१. कृच्छ्रतो देशा क ।
३. अरुपे प्रभुजे ग ।
५. गपुस्तके पंक्तिरियं नास्ति ।
२. अरावत्तें क ग ।
४. तथाम्बरे ग ।
६. ग पुस्तके पद्यमिदं नास्ति ।