SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् १ अधृष्या शाश्वती धन्या कृष्णा श्यामारुणा सिता । प्रकृतिर्महती ज्योतिर्धर्मकामार्थसाधिका ॥ ८६ ॥ गणमाताम्बिका पुण्या वरा' वागीश्वरी तथा । तुष्टि पुष्टिश्च शान्तिश्च शिवा चाक्षरमा लिनी ॥८७॥ ददामि विविधान् भोगान् प्रणतेषु विशेषतः । मूढान् बोधयसे नित्यं येषां प्रीतास्मि सुव्रते ॥ ८८ ॥ नमोस्तु ते सुराध्यक्षे ब्रह्माध्यक्ष बलाधिके । त्वं देवमाता ब्रह्माणी षष्ठी सावित्रिरेव च ॥८६॥ रुद्राणी कृष्णपिंगा च नक्षत्र श्चाप्यलं कृता । यमस्य भगिनी ज्येष्ठा नीलकौषैयवाससा ॥६०॥ प्रदोष प्रत्यूषभुजा अर्धरात्रस्तनोदरी । कृत्तिका कृतवेणी च रोहिणीमुखपद्मका ॥११॥ मृगशीर्ष सुखस्नाना प्रार्द्रागन्धानुलेपना । पुनर्वसुः कृता पुण्यैः पुष्याश्लेषा च विश्रुता ॥ ६२ ॥ मघाविमल केयूरे उभे फाल्गुनि कुण्डले । हस्ता हस्ततले तुभ्यं चित्राभरणभूषिता ॥३॥ स्वाती श्रीकीत्तिसम्पन्ना विशाखाकृतमेखला । अनुराधामुक्तदामा ज्येष्ठामूले स्तनान्तरे ॥६४॥ आषाढश्रवणोपेतौ धनिष्ठांगुलि मुद्रिका । शतभिषा मेखलादाम भ्राद्रपदौ च हारकम् ||१५|| रेवती तिलकं देवि अश्विनी करपूरिकौ । भरणीनुपूरौ द्वौ च तथैव रजनी तथा ॥६॥ शुक्रौ दक्षिणहस्ते तु वामहस्ते वृहस्पतिः । ललाटे चन्द्रमा भाति नाभ्यां तु बुध उच्यते ॥६७॥ ५ १. साधनी ख । ३. चाम्बर गामिनी ग । ५. नमोस्तु ते क ग । ७. तुभ्यं ग । अंगारकः प्रभाषायां शनिविलास उच्यते । दिवाकर प्रभातुल्यं राहुवें बलमुच्यते ॥ ६८ ॥ केतुः पराक्रमो देवि ग्रहनक्षत्र भूषिते । स्कन्दस्य जननी माता रुद्राणी धात्रीरेव च ॥६६॥ माता मरुद्गणानाञ्च वृष्टिः सृष्टिस्तथैव च । तपनी भद्रकाली च विष्णुमाता बहुश्रुता ॥१००॥ २. वरा क ग ४. मोहय से क ग ४४७ ६. मुखस्नाना के । ८. विनाश ग।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy