________________
सप्तविंशत्यधिकशततमोऽध्यायः
विनयेनोपसंगम्य शिरसाभिप्रणम्य च । प्रयता नियतात्मानः सर्वै चामिततेजसः ॥६७॥
जपन् स्तोत्रं वरं पुण्यं येन सर्वसुखास्तदा ॥६८॥
स्कन्द उवाच ।
एवमुक्त्वा सुरश्रेष्ठ सर्व देवगणैर्वृतः । नमस्कृत्य महादेवीं स्तवमेतदुदाहरन् ॥६६॥ अतीतैश्च भविष्यश्च वर्तमानस्तथैव च । नामभिः कोतितश्चैव इदं स्तोत्रमुदीरयेत् ॥७०॥
भगवानुवाच । नमोस्तु ते महाविद्ये अजिते तेजगामिनि । सांख्ययोगोद्भवे वीरे वरदे देवपूजिते ॥७१॥
त्वं गतिः सर्वभूतानामव्यक्ताव्यक्तरुपिणी ।
कालरात्रि महारात्रि कालक्षयकरी ध्र वा ॥७२॥ ज्वालाभरण दीप्तांगी ज्वालाज्वालितलोचना। भूतधात्री च भूतानामगतिर्गतिरेव च ॥७३॥ शरण्ये सर्वदेवानां ब्रह्मादीनां न संशयः । नमोस्तु ते महाभोगे मम ध्यानाद्विनिःसृते ॥७४॥ सूर्यकोटि सहस्राभे अग्नि ज्वालासमप्रमे। हेमदण्डधरे रौद्रि त्राहि भक्तान् सुरेश्वरि ॥७५॥ हेमरत्नविचित्रांगी असितासितलोचने । त्वं हि धात्री विधात्री च जननी ब्रह्मणः शुभे ॥६॥ विष्णुमाता महातेजा त्वमेव परिपठ्यसे । नमोस्तु ते शतवक्त्रे सहस्रचरणेक्षणे ॥७७॥ चतुद ष्ट्र महाजिह्नवे हिमवच्छिखरालये । कैलाशनिलये देवि मेरुमन्दरवासिनि । ॥७॥ विन्ध्ये च वससे नित्यं मलये गंधमादने । पूज्यसे देवदेवेशी ऋषिभिर्देव मानवैः ॥६॥ तेभ्यश्चैव वरं दिव्यं देवि त्वन्तु प्रयच्छसि । सृष्टिरक्षणसंहारं त्वमेव परिकुर्वसि ॥८॥ भूतं भव्यं भविष्यञ्च त्वं पदं परमं स्मृतम् । अय॑से स्तूयसे चैव देवतेर्मत्पुरोगमः ॥८१॥ त्वन्तु ह्रीः श्रीद्य तिलक्ष्मीर्मेधा कान्तिः सरस्वती ।धृतिर्मतिर्गतिश्चैव मोक्षमार्गावलम्बिनी ॥२॥ वरदा च प्रसन्नानामिष्टमार्गानुसारिणी । ऋद्धिवृद्धिः परा मूतिर्दक्षकन्यापराजिता ॥३॥
अनुसूया क्षमा लज्जा कीर्तिःप्ति पुश्रिया। शाश्वती च भूतमाता लोकधात्री ह्यनिन्दिता ॥८४॥ विशिष्टा वरदा मान्या पवित्रा लोकसम्मता। स्मृतिः प्रज्ञाश्रुति /रा विमला ह्यनिलानला ॥८५॥