________________
देवीपुराणम्
afrist वायुं ब्रह्माणं सहुताशनम् । वामपार्श्वे तथाविष्णु चन्द्रव व अपाम्पतिम् ॥४७॥ सृष्ट्वैता देवता देवि नाहं प्रीतिमुपागतः । ततोऽहं चिन्तयन् भूयः स्वाँ तनुं स्वेन तेजसा ॥ ४८ ॥ ततश्चिन्तयमानस्य प्रोद्भूतर्माच्च मण्डलम् । प्रोद्भू तन्तु मम ध्यानाद् घोररूपं भयावहम् ॥४६॥ दुष्प्रेक्ष्यं ब्रह्मविष्णुभ्यामनिलानलयोस्तथा । ततस्त्वाँ देवेदेवेशि ज्वालामालान्तरे' स्थिताम् ॥५०॥ पश्यामि परया दृष्ट्या ज्वलन्तीं स्वेन तेजसा । कालरात्रि महामायां शक्तिशूलासिधारिणीम् ॥५१॥ सर्वायुधधरां रौद्री खट्वापट्टिशधारिणीम् । करालदंष्ट्रां विम्बोष्ठीं सर्व लक्षरण संयुताम् ॥ ५२ ॥ सूर्यकोटिसहस्त्र ेण प्रयुतायुतवच्चसा । विचित्राभरणोपेतां दिव्यकाञ्चनभूषिताम् ॥५३॥ दिव्याम्बरधरां दीप्तां दीप्तकाँवनसंप्रभाम् । मुकुटेन विचित्रेण हेमरत्नविभूषिताम् ॥५४॥ कुण्डलाभ्यां विराजन्तीं हारकेयूरभूषितान् । दिव्याम्बरधरां तीब्रामुद्यतास्त्रविराजताम् ॥५५॥ सर्वैश्वर्यमयों देवीं कालरात्रिमिवोद्यताम् । लीलाधराँ' महाकायां प्र ेञ्खत्काँची गुणप्रभाम् ॥५६॥ खड्गमेकेन हस्तेन करेणान्येन खेटकम् । धनुरेकेण हस्तेन शरमन्येन बिभ्रतीम् ॥५७॥ तजयन्तीं त्रिशूलेन ज्वालामालाकृतिप्रभाम् । एतद्र पं तदा दृष्ट्वा भवत्या भवनाशिनि ॥ ५८ ॥ सर्वे सुरगणा भीता मां तदा शरणं गताः । न शक्नुवन्ति तां द्रष्टु ं निमिषन्तोऽपि ते सुराः ॥५६॥ तेजसा मोहितास्तुभ्यं ज्ञानयोगबलेन च । प्रथ त्वैश्वर्यमेतत्ते तदातीव भयावहम् ॥ ६०॥ दृष्ट्वा भीतं विसंज्ञन्तु त्रैलोक्यं सचराचरम् । ततो मूढा महात्मानो ब्रह्मविष्णुर निलानलाः ॥ ६१ ॥ तेजसा मोहितास्तुभ्यं न प्रवदन्ति तेऽसुराः । ततो मया महादेवि स्तवमेतदुदाहृतम् ॥६२॥ देवानां हितकामाय तवाप्याराधनाय च । प्रमृतं ज्ञानमुत्पाद्य बुद्धितेजोबलेन च ॥६३॥ तेभ्यश्चैव प्रदत्तं मे स्तवमेतत् तु शोभने । उत्तिष्ठ त्वं सुरेन्द्र े शो गृह्यतां स्तोत्रराड् त्विदम् ॥६४॥ येन द्रक्ष्यसि देवेश वरान् श्रेष्ठान् प्रयच्छति । तेषां पुरा मया दत्तं स्तवराजं महायशे ॥ ६५ ॥ ब्रह्मविष्णुपुरस्कृत्य सर्वेषां देवतास्तथा । ततस्तु प्रणता सर्वे मया सार्थ वरानने ॥ ६६ ॥
१. ज्वालामालार्णवे स्थितम् क ग ।
३. ख पुस्तके पंक्तित्रयं नास्ति । ५. ग्रह्निशम् क ।
२, ग पुस्तके नास्ति पंक्तिरियम् ।
४. लीलाधरा ग ।
६. द्रक्ष्यथ क ग ।
४४५