________________
४४४
सप्तविंशत्यधिकशततमोऽध्यायः
नानाद्रुमलताकोणे अप्सरो गीतवादिते । क्रीडते भगवाँस्तत्र सपत्नीको वृषध्वजः ॥३३॥ स्तूयमानो महातेजो देवदानवकिन्नरः । रराज सा महादेवी रुद्ररात्मसमवृतः ॥३४॥ वरदः शूलधृग्देवः सर्वभूतग्रहाश्रयः । तमासीनं महात्मानं देवीवचनमब्रवीत् ॥३५॥
देव्युवाच । भगवन् श्रोतुमिच्छामि प्रश्नमेकं सुरेश्वर ।
तत्समाचक्ष्व देवेश अत्र मे संशयो महान् ॥३६॥ उपपन्नास्मि देवेशं ब्रूहि तत्त्वेन शंकर । देव्याश्च वचनं श्रुत्वा प्रहस्य सुचिरं प्रभु ॥३७॥ उवाच मधुरां वारणी ब्रूहि किं करवाणि ते । अहं ते कथयिष्यामि यन्मां पृच्छसि शोभने ॥३८॥ वर्तमानमतीतञ्च भविष्यं वरवरिणनि ॥३६॥
देव्युवाच । कुतोऽहं कस्य वा देव उत्पन्नास्मि कथं प्रभो । ऐश्वर्यमतुलं चैव कुत एतद् ब्रवीहि मे ॥४०॥ मातरं पितरं चैव स्वजनान् बान्धवानपि । एतदिच्छामि विज्ञातुं कथयस्व महेश्वर ॥४१॥
श्रीभगवानुवाच। न तेऽस्त्यविदितं किंचित् त्रिषु लोकेषु सुन्दरि। त्रैलोक्यज्ञानसंपन्ने त्वया विज्ञापितो ह्यहम् ॥४२॥ अथवा श्रृणु धर्म तं पृष्ठोऽहं यत् त्वया शुभे।
उत्पत्तिश्च प्रभावश्च तव वक्ष्यामि सुव्रते ॥४३॥ आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतय॑मविज्ञेयं प्रसुप्तमिव सर्वतः ॥४४॥ न देवा दामवा वापि न भूमिनिलोऽनलः । न सूर्यश्चन्द्रमा वापि नाकाशं सलिलं तथा ॥४५॥ विष्णुः प्रजापतिर्वापि ब्रह्मा नैव तु जायते । तत्राहं मनसाचिन्त्यं प्रजाकामो मनस्विनी ॥४६॥
१. ग्रहप्रियः क ग।
२, स्वजनसुत बान्धवान् क ख ।