________________
देवीपुराणम्
श्रद्धाभावेण गृह्यते न तर्केन न चक्षुषा । कायक्लेशेन बहुभिर्न चैवार्थस्य राशिभिः ॥ १४ ॥ धर्मः संप्राप्यते सूक्ष्मः श्रद्धाहीनः सुरैरपि । श्रद्धा धर्मः परः सूक्ष्मः श्रद्धाज्ञानं हुतं तपः ॥१५॥ श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धा सर्वमिदं जगत् । सर्वस्वं जीवितञ्चापि यदि दद्यादश्रद्धया ॥१६॥ नाप्नुयात् सफलं किञ्चित् श्रद्धधानस्ततो भवेत् । एवं श्रद्धा समास्थाय देव्यागुरुहुताशने ॥१७॥ पठस्स्तवोत्तमं वत्स सर्वकामानवाप्नुयात् । हिमवच्छिखरे रम्ये सिद्धचारणसेविते ॥१८॥ वसिष्ठो नाम धर्मात्मा तपस्तप्यैस्तपोधनः । प्रतिदीर्घस्य कालस्य पावकस्य सुतो बली ॥१६॥ तमुवाच महात्मानमृति परमधार्मिकम् । ब्रूहि धर्मभृतां श्रेष्ठ यत्ते मनसि वर्त्तते ॥२०॥ एवमुक्तः कुमारेण वसिष्ठश्च महामुनिः । प्रत्युवाच तदा हृष्टो भावितेनान्तरात्मना ॥ २१॥ बसिष्ठ उवाच ।
दाहं समनुग्राह्यस्तव दैत्यनिषूदन । सर्वकामप्रदं नित्यं स्तवराजं ब्रवीहि मे ॥ २२ ॥ एवमुक्तो वसिष्ठेन कुमारस्तु महातपाः । उपस्पृश्य शुचिर्भूत्वा प्राञ्जलिनियतासनः ४ ॥२३॥ नमः सुराधिपतये देवाय परमात्मने । नमस्कृत्य तथा रुद्र देवीञ्च परमेश्वरीम् ॥२४॥ अमृतत्वं भवेद् येन तं ब्रवीमि महामुने । सुखासीनं महात्मानं महासेनं महाद्य ुतिम् ॥ २५ ॥ विनयेनोपसंगम्य शिवमभिप्रणम्य च । उपसंगृह्य चरणौ वसिष्ठः परिपृच्छति ॥ २६॥
देवाश्चैव तु संवादं शिवस्य च महात्मनः । उत्पत्तिः कारणं पृष्टं पार्वत्याः किल शंकर ॥ २७॥ तन्ममाचक्ष्व निखिलं मयूरवरवाहनः | एवं पृष्टस्तु ऋषिणां स्कन्दो वचनमब्रवीत् ॥ २८ ॥
४४३
स्कन्द उवाच ।
मां त्वं परिपृच्छसि । ममापि कथितं पूर्वं ज्वलनेन महात्मना ॥ २६ ॥ पार्वत्या सह संवादं शर्वस्य च महात्मनः । तदहं कीर्त्तयिष्यामि त्वयि सर्वं महामुने ॥३०॥ कैलाशशिखरे रम्ये नाना धातुविचित्रिते । तरुणादित्य संकाशे तप्तकाञ्चनसंप्रभे ॥३१॥ वज्रस्फटिक सोपाने चित्रपट्ट शिलातले । जाम्बूनदमये दिव्ये नानारत्नविभूषिते ॥३२॥
१. द्विजैरपि क ग ।
२. ख पुस्तके नास्ति पंक्तिरियम् ।
४. नियतात्मनः क ।
३. ग पुस्तके नास्ति पंक्तिरियम् ।