SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ सप्तविंशत्यधिकशततमोऽध्यायः । ब्रह्मोवाच । जगद्धिताय नृपत देव्या धर्मे नियोजयेत् । तन्नियोगादयं लोकं शुचिः स्याद्धर्मतत्परः ॥ १ ॥ यं यं धर्म नरश्रेष्ठः समाचरति नित्यशः । तं तमाचरते लोकस्तत्प्रामाण्याद् भयेन च ॥२॥ धर्मनिष्ठः कृते राजा' धर्मपाशासितः । युगत्रयं संविज्ञेयस्तस्माद्राजा चतुर्युगम् ॥३॥ धर्मज्ञः सततं राजा प्रजां न्यायेन पालयेत् । न्यायतः पाल्यमानास्तु ध्यायन्ति स्वामिनं शिवम् ॥४॥ धर्ममर्थञ्च कामञ्च मोक्षं च प्राप्तुमिष्यते । तत्तद् प्राप्नोत्ययत्नेन प्रजा धर्मेण पालयेत् ॥५॥ प्रजासु धर्मयुक्तासु चतुर्थाशं भजेन्नृपः । प्रधमष्ठाध्वधर्मस्य चतुर्थांशेन लिप्यते ॥ ६ ॥ तस्मादधर्मे मज्जंतं लोकं राजा निवारयेत् । धर्मे नियोजयेन्नित्यमुदयार्थं विचक्षणः ॥७॥ धर्मशीले नृपे यस्मात् प्रजा स्वधर्मतत्पराः । नृपति बोधयेत्तस्मात् सर्वलोकानुकम्पया ॥८॥ उपायेन भयाल्लोभान्मूर्ख छन्देन बोधयेत् । मन्त्रौषधिक्रियाद्यैर्वा लब्धं धर्मं नियोजयेत् ॥ ॥ स चेदन्यायतः पृच्छेन्न तस्योपदिशेद् गुरुः । यः शृणोति शिवं ज्ञानं न्यायतस्तत् प्रवक्ति च ॥ १० ॥ तौ गच्छतः शिवं ज्ञानं नरकं तद्विपर्यये । तस्मादर्भात समास्थाय गुरुदेव्या प्रपूजने ॥११॥ विद्यायाः परमो यत्न कार्यः शास्त्रस्य वेदने । श्रद्धापूर्वाः स्मृता धर्मा श्रद्धामध्यान्तसंस्थिता ॥१२॥ श्रद्धा निष्ठा प्रतिष्ठाश्च धर्माःश्रद्ध व कीर्त्तितः । श्रुतिभावगताः सूक्ष्माः प्रधानपुरुषेश्वरा ॥१३॥ ५ २. धर्मिष्ठस्य सुतो राजा क ग । १. भवान च क ग । ३. यद्राव्यत् प्राप्तुमिष्यते क ग । 'मोक्षं इति नास्ति क ग पुस्तके | ४. गुरुदेवाग्नि क ग । ५. न करेण ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy