________________
४४१
देवीपुराणम् तर्पयित्वा ततो वह्नि दत्त्वा पूर्णाहुति क्रमात् । ततस्त्वासनविन्यासं प्रागुक्त परिकल्पयेत् ॥३२॥ पूर्वोक्तन विधानेन गंधपुष्पैरनुक्रमात् । पूजयित्वा महादेव्या ततो होम समाचरेत् ॥३३॥ बहुहव्ये धने शुद्धे सुसमिद्धे हुताशने । विधूमे लेलिहानेच वह्निना यः समिध्यति ॥३४॥ मृत्युजयविधानेन क्षीरहव्यो ' प्रपूजयेत् । विरेजो विगते वत्स देवीनां संमता भवेत् ॥३५॥
इति श्री देवीपुराणे होमविधिर्नाम षड्विंशत्यधिकशततमोऽध्यायः' ।
१. द्रव्येण क ग ।
२. आद्य होमविधिः क ग।