________________
४४०
षड़विशत्यधिकशततमोऽध्याय
शिरसाभ्यर्चयित्वा तु जयां देवीं ततो यजेत् । कृतं पुसवनं ह्यवं सीमन्तोन्नयनं शृणु ॥१६॥ अजितामर्चयेत् पूर्व शिवाबीजं ततो यजेत् । सीमन्तकरणं वह्नः कृतं भवति. वेदिकम् ॥१७॥ अस्त्रेण तु समभ्यर्च्य जपेद्देव्यापराजिताम् । जातकर्म कृतं ह्यावं ततो नाम विनिदिशेत् ॥१८॥ विघ्नेशमर्चयित्वा तु कवचस्य विनिर्दिशेत् । ततोऽस्य श्रावयेन्नाम देव्यग्निस्थः हुताशनः ॥१६॥ नादेव्यो देव्याश्च कर्माणि साधयन्ति कदाचन । तेन कार्येण राजन्ते कार्यो देवाग्निपार्क ॥२०॥ जननेव च शूद्राश्च अभयाख्या नियोजने । बोधेन अंकुशाद्या तु वोणाख्या सर्वकर्मसु ॥२१॥ एवं वह्निस्तु संस्कृत्य मुद्रामंत्रैर्यथाक्रमम् । ततो होमं प्रकुर्वीत शास्त्रदृष्टेन कर्मणा ॥२२॥ हृद्वीजे नास्तरेद् दर्भान् परिधीश्च निघापयेत् । प्रागग्अनुत्तरानांश्च पुनर्देवान् प्रपूजयेत् ॥२३॥ ब्रह्माणं शंकरं विष्णु मन्त्रेशं समन्वितम् । पूर्वादारभ्य गायत्र्या विष्टरस्थान् यथाक्रमम् ॥२४॥
आग्नेयी दिशमाश्रित्य प्राज्यभागन्तु दापयेत् । अधिश्रयणं पुरा कृत्वा पश्चादुत्प्लवनादिकम् ॥२५॥ प्रोद्दे शमात्रकं दर्भ प्रोच्छिन्ने तु नखेन तु ।
अंगुष्ठानामिके गृह्य घृतस्योत्प्लवनं कुरु ॥२६॥ ततः संप्लवने मन्त्री सम्मुखं घृतमुत्पुनः । दर्भचूडिकया सम्यक् अरण्योक्त ज्वलं तया। .
नैराजनन्तु बाह्य न उदकेन स्पृशेत्ततः ॥२७॥ शुवस्र चा प्रतापाग्नौ परिगृह्य समन्ततः । संस्पृश्य च कुशं सर्वान् अग्रमध्यानलोकिकान् ॥२८॥ स्थापयेद्दक्षिणे पार्वे आज्यादीनि तथोत्तरे । हृदयेन विधानज्ञः सर्वकर्म समारभेत् ॥२६॥ ततोऽपि धारयेत् वस्त्रान्' देव्याभिस्त्वनुपूर्वशः । पुनरूद्घाटनं कुर्यात् अस्त्रबीजेन पार्थिवः ।३०॥ निस्कृति तु महास्त्रेण दत्त्वा सपि निरूपयेत् । शिवे सोमे तथा वह्नौ ततस्त्रिधा परिकल्पयेत् ॥३१॥
१. याचक: क । २. शूद्रास्य ख।