________________
षड्विंशत्यधिकशततमोऽध्यायः ।
नृपवाहन उवाच । जपाध्ययनयुक्तानामन्तराया भवन्ति ये । तेषां संशमनं तात श्रोतुमिच्छामि तत्त्वतः ॥१॥
अगस्त्य उवाच ।
देव्याः संस्मरणं वत्स सर्वविघ्नविनाशनम् । अनेकधा समाख्यातं तथापि कथयामि ते ॥२॥ जपेन चात्मनः शुद्धिः अग्निकार्येण सम्पदः । सम्पदा चेह कर्माणि सिध्यन्ति मुक्तिदानि च ॥३॥ तस्माज्जपादि संशुद्धो अग्निकार्य समारभेत् । आश्रयं सर्वसिद्धिनामिहामुत्र फलप्रदम् ॥४॥ पूर्वोक्तलक्षणे कुण्डे पूर्वनाम्नि हुताशने । श्रुवद्रव्यादिसंपार सम्पन्नस्तु ततोऽग्नये ॥५॥ प्रोक्षयित्वा पुरा प्राज्ञः कुण्डं मन्त्रोदकेन तु । ततस्तु वेष्टयेत् पश्चात् कवचेन यथाक्रमम् ॥६॥ पुनरुल्लेखनं कुर्यात् अस्त्र बीजेन भो नृप । दक्षिणोत्तरवारुण्यां मध्ये तिस्रस्तथोत्तरे ॥७॥ पुनरभ्युक्षणं पश्चात् कवचेन विधानवित् । विस्तरं कुण्डमध्ये तु प्रणवेन पुनर्व्यसेत् ॥८॥ ततः शक्ति न्यसेत् तस्मिन् तडित्सहस्र सन्निभाम् । क्रतुमयी' विशालाक्षी सततं योनिमुद्रया ॥६॥ युगकेशवसं भिन्तं द्वितीयाश्रमसंमं स्थितम् । केशवान्तहितो देवो देवी एषा हुताशने ॥१०॥ गंधपुष्पाचितं कृत्वा अर्पयित्वा विधानवित् । देव्याः संतर्पणार्थाय ततो वह्नि प्रकल्पयेत् ॥११॥ तेनैव स विनिर्मुक्त वेष्टगं नियोजितः । स एव परसंज्ञस्तु वह्निः सर्वार्थसाधकः ॥१२॥ ताम्रपात्रे शरावे वा आनयित्वा हुताशनम् । अस्त्रग प्रोक्षयेत् तत्तु पुनर्बीजं नियोजयेत् ॥१३॥ ततस्त्वावेष्टयेत् पश्चात् कवचेन यथाविधिः । स्थापयित्वा शिवा कुण्डे योनिमार्गेण निक्षिपेत् ॥१४॥ जयाख्येन तु मन्त्रेण हृदयन्तु पुनर्यजेत् । गर्भाधानं भवत्येवं जातवेदस्य पार्थिव ॥१५॥
१. भानुमती क। ऋतुमती ग।
२. भ्रामयित्त्वा तथा क ।