________________
पञ्चविंशत्यधिकशततमोऽध्यायः ।
अगस्त्य उवाच । देवाग्निगुरुविद्यायाः पूजायाः सदृशं फलम् । गुरुस्तेषां भवेत्पूज्यः सर्वकाम प्रसाधकः ॥१॥ विद्याग्नि देवतानाञ्च विशेष उपदेशकः । यर्थाथो न्यायवादी च संदेह-विनिवर्तकः ॥२॥ तस्योक्तानि च वाक्यानि श्रद्धेयानि विपश्चितैः । यथार्थ पुण्यपापेषु तदश्रुत्वा व्रजत्यधः ॥३॥ तस्मात् सर्वप्रयत्नेन शिवं सम्पूजयेत् गुरुम्' । नृभिः परोपकाराय प्रात्मनश्च विमुक्तये ॥४॥ देव्या यागविधानेन तस्य पूजा विधीयते । हेम-गौ-मणि-भूम्यादि दानानि विनिवेदयेत् ॥५॥ गृहमण्डपविद्यादि शय्यादण्डाशनादिभिः । देयं गुरोविशेषेण यद्यदिष्टतमं भुवि ॥६॥ तेन सर्वमवाप्नोति तुष्टेन नृपसत्तम। अशक्तषु च सर्वेषु पापैविश्लेषितोऽपि वा ॥७॥ गुरोर्भावगतं वित्तं महद्भक्त्योपभोजयेत् । दक्षस्य यज्ञविघ्नं तु न तस्य कृतवेदिने ॥८॥ तथापि न चलेद्भक्तिः पार्थस्य च तपोधने । जनमेजयस्य यज्ञ तु अन्येषां च महात्मनाम् ॥६॥
भवन्ति विघ्नकर्त्तारो धैर्यात्तेषु वरप्रदाः ॥१०॥
इति श्रीदेवीपुराणे गुरुदेवपूजाविधिर्नाम पञ्चविंशत्यधिकशततमोऽध्यायः ।
१. शिववाक्यप्रवक्तारं शिववत्पूजयेद्गुरुम् क ग। ३. वलस्य क।
२. अब्यक्तेषु क । ४. प्राद्य देव्यवतारे गुरुपूजाविधिः क ग।