________________
देवीपुराणम्
पंकजः शतपत्रश्च दशधा पुण्यवृद्धये । एतैस्तु श्रर्चयेद्द वीमाशुसिद्धिः प्रयच्छति ॥ १६ ॥ द्रोणपुष्पी शमी क्षीरी नीलापमार्ग पत्रिक्राः । सुरसा बर्वरा भद्रा सुरभी कर्ण मल्लिका ॥१७॥ कदम्बैरर्चयेद्रात्रौ मल्लिका उभयोः समा । दिव्यशेषारिण पुष्पाणि यथालाभेन पूजयेत् ॥ १८ ॥ कीटकेशोपविद्धानि शीर्णपर्युषितानि च । संपतितानि च पुष्पाणि त्यजेदुपहतानि च ' ॥१६॥ मुकुलैर्नाच येद्द व्याः प्रपक्वं न निवेदयेत् । फलं क्वथितं विद्धञ्च यत्नात् पक्वमपि त्यजेत् ॥ २० ॥ अलाभेन च पुष्पाणां पत्राण्यपि निवेदयेत् । पत्राणामप्यलाभे तु फलान्यपि निवेदयेत् ॥२१॥ फलानामप्यलाभे तु तृणगुल्मौषधान्यपि । श्रौषधीनामलाभे तु भक्त्या भवति पूजिता ॥ २२ ॥ प्रत्येक मुक्तपुष्पेषु दशसौर्वाणकं फलम् । सन्निबद्धेषु तेष्वेव द्विगुणं फलमुच्यते ॥२३॥ यः सुगन्धं रक्तपुsपैः सम्यग्देवीं प्रपूजयेत् । मालाभिर्वापि सुमनैः सोऽनन्तं फलमाप्नुयात् ॥२४॥ बिल्वपत्रैरखण्डैर्यः सकृल्लगं प्रपूजयेत् । सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ २५ ॥ यः कुर्याच्च शिवाराममाम्रबिल्वादि शोभितम् । जाती विजयराजार्क - करवीराब्ज - कुब्जकैः ॥२६॥ पुन्नाग नाग बकुलै अशोकोत्पल चम्पकैः । कदली हेमपुष्पाद्यं स्तस्य दानफलं शृणु ॥२७॥ यावत् तत्पत्र कुसुम बीजयुति फलानि च । तावद्वर्षसहस्राणि देव्यालोके स मोदते ॥ २८ ॥
इति श्री देवीपुराणे पुष्पविधिर्नाम त्रयोविंशत्यधिकशततमोऽध्यायः ।
१. ग पुस्तके नास्ति ।
२. ख पुस्तके नास्ति ।
瓶
२. इ० देवी पु० पुष्पविधिः क ग ।
४३५