________________
चतुर्विशत्यधिकशततमोऽध्यायः ।
नृपवाहन उवाच । समस्त धर्म कथनं तव वक्त्राद्विनिःसृतम् । श्रुतं भूयोऽपि पृच्छामि देव्या गुरुपूजनम् ॥१॥
अगस्त्य उवाच भूगृहे गृहमध्ये वा रक्ताख्ये गिरिकन्दरे । नदी-नद-समुद्रे वा प्रकोष्ठे कूपवर्जिते ॥२॥ सुभक्त-जन-संकीर्णे' शुभवास्तूप संस्थिते । स्नात्वा शास्त्रविधानेन मंत्रपूर्व नृपोत्तम ॥३॥ देव्यामूलांग षटकंतु न्यस्य शस्त्रण संस्थितः । मृदु चर्म कृते शस्त्रे तूलकार्पासपूरिते ॥४॥ एवंविधे स्थितो मन्त्री सुधूपासितवाससः । वितानध्वजसंछन्ने कटवस्त्रविभूषिते ॥५॥ मनोरमे कृते स्थाने देव्या स्नानादिकाः क्रियाः । कृत्वा पूर्वविधानेन हैमराजतताम्रजः ॥६॥ कलशस्तोयगंधाद्य : पृथक्धूपसुधूपिताः । मदादिलेपिता देव्यो दुकूलपरिवारिताः ॥७॥ मुक्ताफलकृताहाराः पद्मराग विभूषिताः । खड्गखेटकपाशादि छुरिकादि निवेशयेत् ॥८॥
घृतपूर्णानि मांसानि नैवेद्यमुपपादयेत् । पूर्वोक्तविधिना वत्स पूजयेत् परमेश्वरीम् ॥६॥ ध्यात्वा देवी शुभां वत्स विग्रहामपरां पराम् । प्ररिणपत्य तथा देवीमात्मानमपि तादृशम् ॥१०॥ कृत्वा जपादिकं कार्य विविध कार्यसिद्धये । ततो निवेदयित्वा तु वह्निकर्म सुरक्षितम् ॥११॥ कार्य पूर्वविधानेन स्त्र वस्र च्यादिरक्षिते । कुण्डे सुलक्षणोपेते वसोर्धारा प्रतिष्ठयेत् ॥१२॥
१. सुविभक्तजलसंकीर्णं क ।
२. तुल्यस्तवासने स्थितः क ग ।