________________
त्रयोविंशत्यधिकशततमोध्यायः।।
नृपवाहन उवाच । वह्निकर्मफलं विप्र कथितञ्चायधारितम् । पुष्पगन्धविशेषन्तु श्रोतुमिच्छामि तत्त्वतः ॥१॥
अगस्त्य उवाच । पात्राणां हेमरौप्योत्थैः यथा प्रोक्तो नृपोत्तम । घृतहोमे वरं यद्वत् तिलाश्च मदलेपने ॥२॥ चन्दनागुरु कर्पूर नखं धूपे वरं मतम् । मद कर्पूर काश्मीरं रोचना च चतुष्टयम् ॥३॥ एतेन लेपयेद्देव्याः सर्वकामानाप्नुयात् । जाती कंकोल-पत्रेला-कुष्टकुकुम पत्रिका ॥४॥ जातीफलो लताख्या च स्नानगन्धा सदाधरा । नाग केशर कर्पूर सुरामांसी सबालकाः ॥५॥ उद्वर्तनाः समाख्याताः सदैव मातरप्रियाः । धूपं कल्याण नागन्तु नित्यं देव्या प्रियं नृप ॥६॥ चन्द्राख्यं लेपनं देयं सर्वसिद्धिप्रदायकम् । मणिमौक्तिक मालाश्च वितानञ्च दुकूलजम् ॥७॥ घण्टादि सर्वदा दत्त्वा हेमपुष्पफलं लभेत् । पुष्पैर्वारण्य सम्भूतैः पत्र वा गिरिसम्भवः ॥८॥ अपर्युषितान्यच्छिद्र : प्रोक्षितर्जन्तुजितः । आत्मारामोद्भवैर्वापि पुष्पैः सम्पूजयेच्छिवाम् ॥६॥ पुष्पजाति विशेषेण भवेत्पुण्यं विशेषतः । तपः शीलगुणोपेते पात्र वेदस्य पारगे ॥१०॥ दश दत्त्वा सुवर्णानि यत्फलं कुसुमेषु तत् । मातराणां सकृद्दत्त्वा लभते नृपसत्तम ॥११॥ तस्मात् पुष्पान् प्रवक्ष्यामि पत्राश्च सुरभीश्चये । केतकोश्चातिमुक्तश्च बक-बन्धू-बकुला ऋषिः ॥१२॥ कदम्बः करिणकारश्च सिन्धुवारः समृद्धये । पुन्नाग चम्पकं कुन्द्रं यूथिका नवमल्लिका ॥१३॥ दमना पद्मपत्रश्च शतधा पुण्यवृद्धये' । तारार्जुनमल्ली च बृहती शतपत्रिका ॥१४॥ करवीर कुसुम कलार बिल्वपाटल मालती । जवा विजो किलाशोको रक्तनीलोत्पलाः सिताः ।१५।
१. ग पुस्तके नास्ति ।