SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् प्राधाने भवते ह्यग्निर्बर पुंसवने स्थितः। सीमन्ते मंगलो नाम जातकर्म विभुः स्मृतः ॥१५॥ नामे बलः समाख्यातः प्राशने अंगिरा मतः। चूडे समुद्भवो वह्निर्जयो व्रतनिबन्धने ॥१६॥ रुद्रो गोदानिको नाम विवाहे संयुगः स्मृतः । अग्निश्च कालिको नाम अग्निहोत्रे विधीयते ॥१७॥ पावसथ्ये भवो ज्ञेयः पितृणां विश्वदेवकः। अनलो जठरो वह्निः कल्माषोऽमृतभक्षणे ॥१८॥ सूर्यो वह्निर्महाहोमे जलो जलनिवेशने । शशांकः पूरिणमाहोमे क्षये सम्वतको मतः ॥१६॥ घोरः काष्ठ समृद्धश्च परान्तो वेणुसम्भवः । समुद्र वडवाग्निस्तु दक्षः पाकविधो मतः ॥२०॥ निधीशो वसुधारायां कामदेवोऽथ धूमजः । तूषजः कामहा त्वग्नौ रथ्यायान्तु परान्तकः ॥२१॥ बीभत्सु भुत्करो वह्निविजयो नृपगेहजः । धूमजो वृक्षसमुत्थस्तु दोपे कृष्णपथो मतः ॥२२॥ हेमं तापे भवेद्वाद्य प्रजितो मातृवेश्मजः। संगरो म्लेच्छलोकेषु शंखो वै चेष्टपाकजः ॥२३॥ प्रादित्ये शुद्धि विजानीयाज्जयः शुक्रनिवेशने । गुरुदीक्षाविधौ वह्निरपरो तिण्डिलेषु च ॥२४॥ कण्ठानुकूलजो विद्धि लक्षहोम पराजितः । प्रतापो नृपदीक्षायां वहुदानजशोणजः ॥२५॥ शुभो ग्रहविधौ ह्यग्निरारण्ये अरणीभवः । सर्वगो वैद्य तो वह्निः शम्भुर्मणिसमुद्भवः ॥२६॥ कामिकः साधकाग्निश्च रिपुहा अभिचारजः । कोटिहोमे शिवो वह्निः सर्वकाम प्रसाधकः ॥२७॥ शिवतेजोद्भवो विप्र कालाग्निः स च कोत्तितः। एको बहुप्रकारेस्तु नाम कमर्यथास्थितः ॥२८॥ कथितः पावको वत्स किं भूयः परिपृच्छति ॥२६॥ इति श्री देवीपुराणे वह्निभेदोनाम द्वाविंशत्यधिकशततमोऽध्यायः । १. पद्य मर्द ग पुस्तके नास्ति । २. लोकपंचकं ग पुस्तके नास्ति । ३. इत्याद्य वन्हिभेद: क ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy