SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ द्वाविंशत्यधिकशततमोऽध्याय 1 वृहस्पतिरुवाच । एक स्त्रगुण प्रख्यातः सर्वदेव सुखावहः । बहुधा तत्कथं कर्म योजयन्ति द्विजोत्तमा ॥१॥ दक्षिणाग्नि विभागं तु प्रसूतिर्बहुधा तथा । नामभिः कर्मभिर्द्देव कथयस्व समासतः ॥ २ ॥ एवमुक्तस्तु गुरुणा ब्रह्मा लोकपितामहः । उवाच मधुरां वाणीं शृणुष्वावहितो द्विज ॥३॥ ब्रह्मोवाच । पुरा कृतयुगे विप्र एक एव हुताशन । रुद्रमूर्ति स्थितो नित्यं तेजो नाम महात्मनः ॥४॥ त्रेतायां दक्षिणेशो वं यज्ञार्थं विसृजन्महान् । गार्हपत्यं तमो जातं हवनीयं ततोऽभवत् ॥५॥ हवनीय प्रसूतिस्तु भरताद्या महौजसः । एकपञ्चाशतं नाम चराचर विधायकाः ॥६॥ तेषां वै नाम कर्माणि बहुधा ब्रूहि भो द्विज । सप्त सप्त विभागेन तेषां सन्ततिजातयः ॥७॥ भरती वरमांगल्ये विभुश्च बल गिराः । समुद्भवो जयो रुद्रः संयुगः कालिको भवः ॥ ८ ॥ सूर्यो जनः शशांकश्च विश्वेदेवाः परावसुः । कल्माषः संचयो घोरो वडवाग्नि वरान्तकः ॥६॥ दक्ष निधीश्वरः कामः कालान्तक परान्तकौ । बीभत्सो विजयो धूम्रः कृष्णवर्णोऽथहाटकः ॥१०॥ श्रजितः शंकरः शख: शुद्धिदो जयदो गुरुः । अपरोऽपराजितः कश्च प्रतापो बहुदः शुभः ॥११॥ श्रारण्यः सर्वगः शम्भुः कामिको रिपुहा शिवः । गर्भाधानादिसंस्कारैः स भवेत् सर्वदकामदः ॥ १२ ॥ परिग्रहानुरूपेण तथा होमवशेन च । लघ्वाहारो विशुद्धश्च नित्यहोता प्रकीर्तितः ॥ १३॥ कृत्वा हुताशने पंच कर्माणि भवते सदा । सर्वसिद्धि प्रदायित्वादन्यथा हवने चरुः ॥ १४ ॥ १. स्थापितानि क ग । ३. जलः ग । ४. गह्वरः ग २. भवतो परमांगल्ये विभावचलसंज्ञकः ग । ५. अविग्रहान्तरूपेण तथा होतृवशेन च ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy