________________
४२४
एकोनविंशत्यधिकशततमोऽध्यायः
कठारावं विमुञ्चन्ति करिगोऽपि' मदच्युताः । गज्जिते च महातोत्रं न तु पतितुमिच्छति ॥४४॥ दुर्लक्ष भ्रमतेऽतीव चक्रवद् दण्ड चोदितम् । पतन्ति दिक्पालानि दनुपालानि कोटिशः ॥४५॥ प्रदीप्तांगारवृष्टिश्च सजाता तीव्र भास्वरा । स्थूलधारा विमुञ्चन्ति घनाग्निकणजानि तु ॥४६॥ सिंहाकारा विलम्वन्ति वह वाला सुदारुणा । लेलिहाना भ्रमन्त्यन्ये व्यालरूपाचिषो घनः ॥४७॥ क्षये चाग्निमुखै घोरैः शिवाभिविप्लुतं जगत् । कल्पान्तगृधनिचितं देवि भूमिदिगाननम् ॥४८॥ विलुप्यमानं सकलं भवानि भयविद् तम् '। ब्रह्मास्त्र व्याकुलं सर्व वायव्यं पार्थिवैश्चितम् ॥४६॥ वाससैः प्लाव्यमानं वै करालानलतापितम् । सर्वमेतन्महादेवि विपरीतं स्थितं जगत् ॥५०॥ सदेवगणगान्धर्व सकिन्नरमहोरगम् । यक्ष- रक्ष पिशाचाद्य स्थावराद्य च पार्वति ॥५१॥
ब्रह्माण्डान्तर्गतश्चैतद् यथान्यत् स्थानमुत्तमम् । विनाशमुपगच्छन्ति दृष्ट वा चैतच्चराचरम् ॥५२॥ ततस्त्वेकार्णवे घोरे हन्यमाने महोमिभिः । विष्फार्यमानो सन्नद्धो तजयन्तौ परस्परम् ॥५३॥ अहंकारवशानित्यो तमसातीवभूरिणा। प्रेरितौ नष्टसंज्ञौ च विहितौ वत्तितेक्षणौं ॥५४॥ क्षपास्त्राणि समुद्गम्य कोपात् संरक्तलोचनौ । विवादं संस्थितौ द्वौ तु गदायुद्धं च पार्वति ॥५५॥ मत्स्वरूपमजानन्तौ मम मायाविमोहितौ । मातृत्वकारणार्थी च प्रज्ञार्थी च कृतः स्मृतः ॥५६॥ तयोः कार्यमिदं ध्यात्वा प्रजेशानां महामुने । दर्पोपशमनोपाय इति सञ्चिन्तितो मया ॥५७॥ कृति-कारण-कार्यार्थमुत्पत्ति निधनं गतः । ततो विविधहेतुत्वं लिंगरूपातितेजसा ॥५८॥
१. अतिघोरंग।
२. चंडव गंडे चोदितम ग ।
३. विवभ्यमानं ग।