________________
देवीपुराणम्
यद् यत्र विलयं याति मच्छरीरेऽखिलेश्वरी । तस्य तस्य तु तत्रैव सम्भवः परिकीर्तितः ॥ २८ ॥ स्वकायात् स्वेदमुत्पाद्य कृत्वा तु करमध्यतः । सुशुद्धाश्चामृतमयः शीतलांभः स्वतेजसः ॥२६॥ मयांगुष्ठेन मथितो यावदन्यस्तु श्रागतः । बुदबुदाकार सदृशं शतकोटिप्रविस्तरम् ॥३०॥ विभाति करमध्यस्थं मम तस्मिन् महात्मनि । तेजेन' कठिनीभूतं हेमभानुशतप्रभम् ॥३१॥ तदण्डमिति विख्यातं ब्रह्माण्डमिति निश्चितम् । परेच्छाक्षोभ्यमव्यक्तां व्यक्तिहेतुकृतं मया ॥३२॥ तत्रास्ते सप्त लोकानि पाताल नरकाणि च । कालानलावनिर्यानि अनेकाकारलक्षणम् ॥२३॥ विश्वरूपाण्यहं कृत्वा तत्रैवान्तरधीयत । ममेच्छ्यापि विसृष्टः स ब्रह्मा ममर गुरुर्महत् ॥ ३४ ॥
सत्तस्थस्तिष्ठतं स्वस्थो न परं किञ्च विन्दति । यच्छेषांसकरस्थं मे रजसा निश्वितं तु तत् ॥ ३५॥ विष्णुस्तत्रास्ति सुव्यक्तो प्रतिवीर्यो ममात्मकः । रजेन उदयामास तत्सत्त्वं ब्रह्मजं प्रिये ॥३६॥ विव्धस्तु ततो ब्रह्मा ज्वलितः स्वेन तेजसा ।
- मया संचित्य तमसा रजो वृद्धस्वरं भृशम् ॥३७॥
सोऽपि स्ववीर्यमुत्कृष्ट तीव्र ज्वालां मुनोति ।
सहस्र बाहुवदना सहस्रचरणं शिरः ॥ ३८ ॥ सर्वायुधकरौ तु नानौ परस्परम् । तौ दृष्ट्वा भयसंत्रस्ताः पुराणपुरुषोत्तमाः ॥३६॥ क्षयाम्बुदाः समारब्धा वर्धिता गगनाम्बरे । घोर रावाः करांलानि रुरोदन्ति दिशो दश ॥४०॥ क्षयच विवशा दीर्घा चकासन्ति तडिल्लता । प्रचण्ड मारुताधारा' पतन्ति च समुद्यताः ॥४१॥ समं धरित्रीं सकलां दर्शयन्ति महातलम् । विस्तातिजलोद्वेगं यान्ति सप्तार्णवे भृशम् ॥४२॥ धूमाच्चि सक्लाइवोच्चैः स्वरेणाचितुमुद्यताः ।
स्वमर्यादाविनिर्मुक्ता तिग्माका प्रकल्पिताः ॥४३॥
१. भोजनका चनभूतम ग ।
३. मनसा ख ।
४२३
२. पटगुरुः ख ।
४. प्रचण्डमारुतहता धाराः पतितुमुद्यताः ख ।