________________
४२२
एकोनविंशत्यधिकशततमोऽध्यायः
अगस्त्य उवाच ।
सर्वदेवेश्वरो देवो ब्रह्मा विष्णुतनुरुहैः । यथावत् क्रियते' वत्स तथा ते कथयाभ्यहम् ॥१२॥ व्रतोत्तमं महापुण्यं यत्र ज्ञातं सुरैरपि । सम्भवन्तु कपालस्य खट्वांगस्य च सुव्रत ॥१३॥ ईश्वर उवाच ।
थानादि परो देवस्तथाहं वरवर्णिनि । संसारोऽपि तदवस्थः परमार्थेन वेदितुम् ॥१४॥ तस्य देवातिदेवस्य कारणस्यामितद्य तेः । इच्छाधिकारणञ्चाहं इच्छा त्वं तस्य भाविनि ॥ १५ ॥ माया च जगतः स्रष्टा त्वं च सृष्टिर्वरानने ।
क्रियाख्या पच्यते येन तेन सृजसि वाङ्मयम् ॥१६॥
मूलप्रकृतिरूपेण सृष्टिस्त्वं पद्मजन्मनः । सोऽपि शतांशभागेन निमेषस्य मम प्रिये ॥१७॥ स्थित्वा विनाशमायाति पुनस्तत्रव गीयते । कपालं तस्य चादाय क्रीडामि विपुलेऽध्वनि ॥ १८ ॥ एवं कपाल कोटिभिर्माला येयं विभाति मे । तस्य गात्रं व संख्यायैर्वृत्तान्त वरवनि ॥१६॥ यदा मायोदरं सर्व कालेन प्रलयं गतम् । तदाहमीश्वरे तत्त्वे भवामि रमितः सुखी ॥२०॥ ब्रह्मणोऽनन्त कपालैस्तु धृत्वा मालां सुभैरवाम् । अनन्तं भैरवं रूपं कालं द्वादशलोचनम् ॥२१॥ प्रतिघोरं समाश्रित्य वियत्यस्मिन् रमाम्यहम् । एकाकी मातृभिर्युक्तः स्ववीर्यबलशालिभिः ॥ २२ ॥ परार्धद्वय कालान्ते व्यतिक्रान्ते महेश्वरि । क्रीडयित्वा समस्ताभिः शक्तिभिर्घोररूपिभिः ॥ २३ ॥ भावभूतमयं विश्वं सत्तत्त्वं गहनात्मकम् । कृत्वोदरगतं सर्वमन्न ग्राममनन्तकम् ॥२४॥ विनिकृत्य समारुद्धां योगनिद्राश्रितः सुखी । शयामि शक्तिपर्यन्के वीरमाते ततो ह्यहम् ॥ २५ ॥ पुननैत्रोदये दिव्ये विनष्ट परमां चये । स्वशक्तिसंप्रबुद्धस्य वृताश्चित्रा प्रजायते ॥२६॥ भावस्तत्त्वैस्तथाभूतैर्मालयं भुवनात्मकी | मायाद्यावनिपर्यन्तं युगपद् योगजं महत् ॥२७॥
१. यथा क्रीडयते वत्स ग ।
३. मया च जगत-स्रष्टा ख । जगतस्यान्य ग ।
५. मायोदन ग
६. मातृभिर्मुक्तः सुवीर्यं ग ।
२. परमात्मेन चोदिनम् ग ।
४. नीयते ग ।
७. विनिशम्य तामनित्वम् ग