________________
एकोनविंशत्यधिकशततमोऽध्यायः ।
इन्द्र उवाच ।
महादेवेन भो ब्रह्मन् महाबलपराक्रमः । हत्वा खट्वासुरेन्द्र तु खट्वांग चरितन्तु किम् ॥१॥
ब्रह्मोवाच । ततो ब्रह्मादयो' जित्वा दनुनाथेन वासव । कैलाश पर्वतेन्द्र तु गतो देवाय शूलिने ॥२॥ योद्ध सर्वबलोपेतस्तथा रुद्रन मन्युना । आदाय तरसा शूलं क्रीडमानेन घातितः ॥३॥ विगतासुस्तथा कृत्वा महापशुसमुद्भवम् । धावितं वामसंस्थं तु खट्वांगं देवपूजितम् ॥४॥ कपालं याम्यहस्तेन कपाला शिरसा तथा । चन्द्रार्ध जाह्नवीमालां महाभूषण पन्नगः ॥५॥ हारादिकटिसूत्रञ्च उपवीतं महोरगम् । अनन्तं . वासुकि तक्षां सर्वनागविभूषितम् ॥६॥ कृत्वा रूपं महाघोरं देवदेवं नमस्कृतम् । भैरवं सर्वदेवानां शमनं शत्रुनाशनम् ॥७॥ ततो ब्रह्मादयो वत्स भीता मोहवशं गता । पृच्छति को भवान् चात्र क्रीडते भूतले शुभम् ॥७॥ न विद्यते अपरं किंचित् समयो देवमुत्तमम् । ततो विहस्य देवेश शिरस्ते ब्रह्मा यत्पुरा ॥६॥ क्षात्तं युगकोटिं तु नारायण तनुरुहैः । माल्य नरशिरा धेयं धारयामि भवोद्भव ॥१०॥
नृपवाहन उवाच । कस्मिन् काले व्रतं देवो धृतवान् भैरवं महत् । कथं विष्णुशिरोमाला कपालं विधृतं प्रभोः । एतदिच्छामि विज्ञातु तत्त्वतः कथ्यताम् विभो ॥११॥
२. सर्वपापानां ग ।
. १. विष्ण्वादयो ग ।
३. वृन्तितं मृतकोटिन्तु ख ।