SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ४२० अष्टादशाधिकशततमोऽध्यायः हृदयं होमयित्वा तु तदा संचालनं भवेत् । हेमलांगूलकं कृत्वा शिवं चान्यं विपश्चिता ॥११॥ बालरज्ज वा' निवर्तन्तु बृषस्य ककुद्विज । क्षीरवृक्षसमिधस्तु कृत्वा दारवी दहे द्विभो ॥१२॥ शैलं महाम्भसि क्षिप्त्वा तदा चान्यं निवेशपेत् । प्रतिष्ठाविधिमाश्रित्य सर्व कुर्याद् द्विजोत्तम ॥१३॥ स्वेन स्वेन विधानेन मंत्र सांङ्ग -समुद्भवः । स्थापयेदेवता वत्स मातृणां मातृकी विधिः ॥१४॥ शीणी देव्याया प्रासादा ये पुनः संस्कृता द्विज । अशोच्यास्ते विजानीयाद् धूतपापाः महाधिपः ॥१५॥ मूलाच्चतुर्गुणं पुण्यमाप्नुयात् जीर्णकारकाः । तस्मात् सर्वप्रयत्नेन जीर्ण पाल्यं विपश्चिता ॥१६॥ शून्यं देवालयं वत्स यस्मिन् देशेऽपि तिष्ठति । भयं तत्र विजानीयाद् दुभिक्ष तस्करं पिवा ॥१७॥ . जीर्ण देहं यथा देही त्यक्त्वा चान्यं समाश्रयेत् । देवता जीर्णं प्रासादं त्यक्त्वान्यत्र तु यान्त्यपि ॥१८॥ तस्मिन् शून्ये पिशाचाद्या प्राश्रिता भयदा नृणाम् । उद्वासयन्ति तत्स्थानं कालं कुर्वन्ति दारुणम् ॥१६॥ निःशौचास्तेऽभवन् वत्स तत्स्थाः लोका न संशयः । ग्रहापसृष्ट विद्विष्टा यान्ति नाश महानपि ॥२०॥ तस्मात् तं संस्करेद्वत्स पूजार्थं चान्यथा न्यसेत् । .. देवं देवालयं वापि जीर्णाजीणं नियोजयेत् ॥२१॥ यथा सदा भवेत्पूजा तथा कार्य विपश्चिता । मूलमेवाप्नुयात्पुण्यं द्रव्यांशेन महामुनिः ॥२२॥ कर्ता शताधिकं मूलादाप्नुयादविचारणात् । राजा षष्ठांशमाप्नोति प्रजाराष्ट्र च शुध्यति ॥२३॥ इति श्रीदेवीपुराणे जीर्णदेवताप्रतीकारो नामाष्टादशाधिकशततमोऽध्यायः । १. बानरज्वा क । बालनन्द्वस्तु ग । २. दारुणम् स्वनम् क ग । ४. आद्ये जीर्णसंस्कार प्रतीकारविधि: क ग । ३. विन्दति क ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy