________________
अष्टादशाधिकशततमोऽध्यायः ।
वशिष्ठ उवाच ।
मातरो भैरवं दुर्गा शीर्ण गेहसमाश्रिताम् । चालयित्वा तु प्रासादं कुर्याद्यस्तु द्विजोत्तमः ॥ १ ॥ पक्वेष्टदारुशैलं वा तत्र पूजाफलं शृणु । ब्रह्म ेन्द्ररुद्र विष्णूनां सूर्यस्य च द्विजोत्तम ॥२॥ नोत्तरं शस्यते मार्ग मातृणां न च भैरव । दुर्गायाः सर्वकालं तु चालनं मातरासु च ॥३॥ नवभेदाः समाख्याताः एकमेकेन मातरः । तासान्तु मातृकादेवी चामुण्डा रुरुघातिनी ॥४॥ कस्यास्ते चालन कार्यमघोरास्त्रेण भो द्विज । कालिका वज्रघोराणां दमनी वा न राक्षसा: 3 ॥५॥ चालने विहिता वत्स समयं मातृजं पिवा । शतजप्तेन तोयेन स्नापयित्वा बलि क्षिपेत् ॥ ६ ॥ वस्त्ररक्त - विमिश्रान्त मद्य मांसाकृतान्विताम् । दत्त्वा दिक्षु समस्तासु चालयेच्चचिकां तथा ॥७॥ प्रविष्टो ह्यथवा मन्त्री यदा चालयते शिवाम् । तदा क्षेमं विजानीत राजा पाति वसुन्धराम् ॥
चालिता दक्षिणा नेया चोत्तरस्यां तु स्थापयेत् । पूज्यमाना सदा वत्स यावत् प्रासादनिर्णयम् ॥६॥
1
निष्पन्नेषु मुहूर्त्तेषु प्रतिष्ठाविधिना विशेत् ।
प्रतिमा वा यदा जीर्णा पीठिका वाथ चालयेत् ॥ १० ॥
१. पुण्यविधिम् ।
३. दमनी वा नवाक्षरा क । बालवःक्षरा ग ।
२. तासांनु नायिका देवी क ग ।
४. विष्णो ।