________________
सप्तदशाधिकशततमोऽध्यायः ।
वशिष्ठ उवाच ।
॥५॥
येsपि ये द्विजश्रेष्ठ द्विजराज्यो' विशोबलाः । श्रद्धा वा भक्तिमाश्रित्य पूजयिष्यन्ति मातरः ॥१॥ न तेषां विप्र राष्ट्रषु भयं किचिद् भविष्यति । गावश्च भूरिपर्यतो द्विजाः यज्ञसमाकुलाः ॥२॥ निवृत्तवैरा भूपाला: भविष्यन्ति न संशयः । सुभिक्षं क्षममारोग्यं पर्जन्यः कामवृष्टिदः ॥ ३॥ भवते सस्यनिष्पत्ति: मातरा पूजनात्सदा । चिरन्तनाश्च या देव्यो गिरि दुर्गेषु संस्थिता ॥४॥ ताः पूजय द्विजश्रेष्ठ नृपराष्ट्र - विवृद्धिदाः । अनाथा मलिना दीना बलिमाल्यविवर्जिताः सकृत्संपूजिता विप्र सर्वकामफलप्रदाः । एकाहमपि भक्त्या च कन्यासंस्थे दिवाकरे ॥६॥ पूजयित्वा शिवाचक्रं दीपान्संबोधयति च । ते लभन्ते शुभान् भोगान् श्रायुरारोग्यसम्पदः ॥७॥ संध्याकाले तु सम्प्राप्ते पूजयित्वा तु मातरः । ये ददन्ति पुनर्दीपान् सिन्दूरं पललान्वितम् ॥८॥ न तेषां दुरितं किंचिद्विद्यते मुनिसत्तम । रुद्रो ब्रह्मा तथा ईशः स्कन्दो विष्णुर्य मो. हरिः ॥ ॥ परा च विघ्नसहिता स्त्रीरूपाः सप्त संस्थिताः । मातरा पूजनाद्वित्र सर्वदेवाश्च पूजिताः ॥ १०॥ त्रिकालं सप्तकालं वा एकपंचमथापि वा । पूजयेन्न तु कन्यास्थे क्षणं पूषादि लंघयेत् ॥ ११ ॥ नातः परतरं किंचिद् त्रिषु लोकेषु विद्यते । यथा जीर्णस्य संस्कारात् तव राजन् शुभं भुवि ॥ १२ ॥ इति श्रीदेवीपुराणे मातृपूजानाम सप्तदशाधिकशततमोऽध्यायः ४ ।
१. विशोबला ग । ३. सुभक्तितः क ग ।
२. शूद्रावा क । ४. आ
मातृकापूजा क ।