________________
देवीपुराणम्
४१७
तयस्तुष्टा महाभागा स्वां शक्ति सन्निवेशिरे । वरं ब्रूहि मुनिश्रेष्ठ यत्ते हृदि व्यवस्थितम् ॥५॥ ततः स अवनीं गत्वा शिरसाभिप्रणम्य च । रक्षतां हरिश्चन्द्रस्तु यदि तुष्टा ममाम्बिके ॥८६॥
कौमारी उवाच । सम्पूर्ण मण्डलं ब्रह्मन् नृत्यमानं' शिवात्मकम् । विन्ध्याद्रौ तिष्ठते नित्यं तस्मिन् रक्षा नृपे तव ।८७॥ अपमृत्यु पुरा दक्षे यज्ञकर्मणि भूमिप । अत्यद्भ तं वलञ्चासीत् तदा रुद्रस्य विष्णुना ॥८॥ राष्ट्रभंगे समुत्पन्ने अवृष्टौ द्वादशाब्दिकम् । मातृचक्रं महाभागे विष्णुना सन्निवेशितम् ॥६॥ तां पूजय मुनिश्रेष्ठ हरिश्चन्द्र सुखप्रदम् । दिनादौ मध्यसन्ध्यासु रुद्रादिषु क्षणेषु च ॥६॥ पूर्वात्तु या च विप्रेन्द्र पूजिता सुखदा शिवा। सुभकत्या गन्धपुष्पश्च' विल्वादि शाद्वलैर्दल ॥११॥ दीपधूपोपहारैश्च सुगन्धैः कुसुमादिभिः । पूजिता सा मुनिव्याघ्र भविष्यति ततः शुभा ॥१२॥ मृत्युपसर्गशमना ग्रहदुःखनिवारका । मांसाद्य बलिदानश्च पृथिवीं पाति सा शिवा ॥३॥ एवं सः पंचकादेशात् कौमारीमतभावितः । गत्वा विन्ध्याद्रिशिखरे नर्मदातोयगृहिते ॥४॥ पूजयामास तां देव्या हरिश्चन्द्राय प्राणदाम् । एकभक्तन नक्त न उपवास अयाचितैः ॥६५॥
___सप्ताहादू वरदा देव्या मुनेभूता तदा द्विज । वरं च सर्वदर्शित्वं विमलर्कोतिर्दर्शनम् । द्वासप्ततिसहस्र स्तु प्राप्तवांस्तपसा तदा ॥६६॥
इति श्री देवीपुराणे हरिश्चन्द्ररक्षणं नाम षोडशाधिकशततमोऽध्यायः ।
१. नित्यमान ख तप्यमान ग । ३. जातीयगद्यपुष्पश्च ग। ५. आद्ये हरिश्चन्द्ररक्षणम् क ग ।
२. शमिता मनुना आसीत्तथा भद्रस्य विष्णुना ग़ । ४. ताः देच्या प्राणदा: ग ।