________________
षोडशाधिकशततमोऽध्यायः
विधिना पूजिता विप्र अचिराद् ददते शिवा । वशिष्ठ उवाच ।
तेन खट्वासुरो ब्रह्मन् जपते सततं शिवाम् ॥७१॥
तपस्तप्तस्य देवर्षे दनुनाथस्य शम्भुना । किं वा कृतं विघ्नं तस्य माण्डव्यो रक्षते कथम् ॥७२॥ कथं वा देवदेवस्य तुतुष्टा सहसा शिवा । तदहं श्रोतुमिच्छामि यथावन्मम कथ्यताम् ॥७३॥ मनुरुवाच ।
अतीव तपसा तस्य असुरस्य महात्मनः । सर्वे देवा भयं जग्मुः दृष्ट्वा दीप्ततरां श्रियम् ॥७४॥ ततो ब्रह्मादयो देवाः सर्वे विष्णुपुरोगमाः । शिवाय भावमास्थाय देव्याराधनका म्यया ॥७५॥ बृहस्पतिर्महाप्राज्ञः सर्वशास्त्रार्थपारगः । उवाच मधुरां वाणीं प्रश्रयानुगतां शिवम् ॥७६॥
बृहस्पतिरुवाच ।
४१६
भगवन् देवदेवेश सर्वदेवनमस्कृत । त्रायतां सुरराजेन्द्रं निमग्नं रिपुसंकटे ॥७७॥ यथा खवासुरं देव हत्त्वा सुरवरारिणम् । दिवमिन्द्रस्य सुखदं भवते तद्विधीयताम् ॥७८॥ एवं तस्य वचः श्रुत्वा ग्रहराजस्य हे नृप । मा भैषीर्वदते देवो देव्यास्तोत्रं नृसंज्ञितम् ॥७६॥ वशिष्ठ उवाच ।
कथं खट्वादयो युद्धे दनुजा बलदर्पिताः । बहुमाया महावीर्याः शंकरेण निपातिताः ॥ ८० ॥ कथं वा हरिश्चन्द्रस्य श्रपमृत्यावुपस्थिते । माण्डव्यः समयाघोरं राष्ट्रभंग उपस्थितः ॥ ८१ ॥
बृहस्पतिरुवाच ।
॥ ८२ ॥
महाभये तदा घोरे श्रमरेन्द्र क्षयंकरे | माण्डव्यो ऋषिशार्दूल शंकरायतनं गतः ४ सोमेशं नामतीर्थन्तु सरस्वत्यास्तटे शुभम् । श्रम्बिका तत्र रुद्राणी चामुण्डा ब्राह्मी वैष्णवी ॥८३॥ मातरं पञ्चकं तत्र सान्निध्यं ब्रह्म पूजितम् । पूजयामास देवर्षिदिनान्ते तां स्वभावितः ॥ ८४ ॥
१. शुभाम् ग ।
३. नरकेच क्षयंकरे ख ।
५. तत्र क ग ।
२. खट्वासुरो ग ।
४. शंकया चावनी गत्तः ख ।
६. तत्सुभाषितम् ख ।