________________
देवीपुराणम्
४१५
न तस्य भवते विघ्नं धर्म कामार्थ शान्तिषु । यः स्तवं विघ्ननाशस्य पठिष्यति अनुत्तमम्' ॥८॥ विघ्नरोग विनिर्मुक्ता दिव्यान् कामांल्लभिष्यति । गोपेन्द्रकं च यो देवमृषिसिद्धनरोऽवलाः ॥५६॥ पठते लक्षणोपेतं कण्ठतालस्तु गायति । न तस्य पुनर्बन्धस्तु भवते धर्मजा तनुः ॥६०॥ मोदते शिवलोके तु यत्र देवः सहोमया । सम्वत्सरकृतं पापं सकृच्छ्र त्वा व्यपोहति ॥६१॥ त्रिश्रुत्वा द्विजहत्यादि प्रकामस्य व्रतस्य च । शमते नात्र सन्देहः सततं श्रवणाच्छिवः ॥६२॥ एवं पूर्व महाबाहो पृच्छतोब्रह्मदक्षयोः । कथितं विष्णुना प्रासीत् तथा च ऋषिपुंगवः ॥६३॥ मन्वादिभिः श्रुतं तेभ्यो मया वशिष्ठकाश्यपात् । प्राप्तं हे नृपशार्दूल तथा ते कथितं मया ॥६४॥
आद्य खट्वावध विष्णोर्वरलब्धिः ।
वशिष्ठ उवाच । कथं खट्वासुरो ब्रह्मस्तपस्तप्यात् सुदारुणम् । येन ब्रह्मादयो देवा वशं कृत्वा स्वशासने ॥६५॥ एतद्वेदितुमिच्छामि महाकौतुहलं मम । कथ्यतामृषिमुख्यानां पृच्छतां संशयापहम् ॥६६॥
मनुरुवाच । या देवी सा पुरा विष्णोर्वरं दत्त्वा दिवं प्रति । इन्द्राय कृतवान् सख्यं सा शिवेन महात्मना ॥६७॥
ब्रह्मणः सृष्टिकामस्य प्रेषिता स्थितिकारिणी । तां दृष्ट्वा मोहसम्पन्नाः सर्वे दमुनरोत्तमाः । तपश्च तपते खट्वा देव्याराधनकाम्यया ॥६८॥
वशिष्ठ उवाच । यदि खट्वासुते ब्रह्मा विष्ण्वादि विघ्नते सदा । कथं देव्यास्तु तोषाय तपस्तप्याद् द्विजोत्तमः ।६९।
मनुरुवाच। . सर्वेषामेव देवानां दानवानामनुत्तमा । देवी वन्द्या च पूज्या च सर्वकामार्थमोक्षदा ॥७॥
२. सिद्धचारण ग। ४. मम क ग ।
१. मनुत्तमम् ख। ३. करतालैस्तु क। ५. ख पुस्तके नास्ति। ६. क ग पुस्तके श्लोकद्वयं नास्ति ।