________________
४१४
षोडशाधिकशततमोऽध्यायः
तेन तृप्ता न बाध्यन्ते ब्रह्मजा ब्रह्मणस्तथा । या च देवी महाभागा तव लक्ष्मी सहायेनागत्य ममतेजः समुद्भवः । उत्पत्ति' विघ्ननाशाय विघ्नेशं सा तदा लब्धवरो विष्णुर्भ यः पृच्छति शंकरम् ।
कियन्तं पर्वते देव मया कालं सुरोत्तम । स्थातव्यं किञ्च सा देव्या तत्त्वरूपा भविष्यति ॥४४॥ देव उवाच ।
मालवे पर्वते विष्ण त्वया लक्ष्मी युतेन च । देव्यां शैवीं मने कृत्वा नाम्ना वै सर्वमङ्गलाम् ॥४५॥ स्थातव्यमेक रात्रन्तु मदीयं सुरसत्तम । तदा श्रागत्य देवी सा सर्व कारण कारणा ॥४६॥ हसमानस्य ते वत्स विधास्यति मया समम् । गजवक्त्रं नरकायं सर्वविघ्नविनाशनम् ॥४७॥ सर्व देवमयं देवं भविष्यति सुरोत्तमम् । नायकं सर्वदेवानामनायकं स्वयम्भुवम् ॥४८॥ मातृमण्डलमध्यस्थं मम तुम्बरुरूपिणे । इन्द्रानुर्वात्तनं पुत्रं तव धन्यं भविष्यति ॥ ४६ ॥ त्वयापि तदा दृष्टव्या स्तोतव्यं विविधैः स्तवैः । नियामकञ्च विघ्नस्य गृह्नदं गदमायुधम् ॥ ५० ॥ तं दृष्ट्वा विघ्नत्यं तु समं यास्यति भूधरम् । गजाननोऽपि मालव्ये विघ्नं हत्त्वा व्रजिस्यसि ॥ ५१ ॥ जम्भासुरविनाशाय हत्वा दैत्यं सुलोमकम् । पुनः पादातिकं वत्स श्रागमिष्यति विघ्न ॥ ५२ ॥ तत्राग्रजेन स्थातव्यं विघ्नेशस्य जनार्दनः । सुलोमं जम्भमायोत्था ये विघ्नेश शरीरजाः ॥ ५३ ॥ ते भूयोऽपि विवर्धन्ते यावन्नागमनं प्रति ॥ ५४ ॥
१. उपेत्य क ग ।
३. नरकाग्रम् क।
५. वंद्य क ।
७. दृष्ट्वा क ।
मनुरुवाच ।
एवं दत्त्वा वरं देवः केशवस्य यथेप्सितम् । तां विद्यामंकगां कृत्त्वा तत्र वान्तरधीयत ॥५५॥ एतत् विनायकोत्पत्तिविघ्न सम्भवहानिजा । स्तवं देव्यावतारञ्च विष्णुगीतञ्च रूपकम् ॥५६॥ कथितं मुनिशार्दूल सर्वपापप्रणाशनम् । यस्तु भक्त्या समुत्थाय प्रातः कीर्त्तयते नरः ॥ ५७ ॥
भूधरपृष्ठतः ॥४२॥
विधास्यति ॥ ४३ ॥
२. तत्ररूपा के ।
४. छन्दानुवर्त्तनम् ख,
६. कृपायितम् ख ।
८. तत्रागतेन क ग ;