SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् लेलिहानोच्चिसंघेन प्रतिभूयात्तु संस्थितिः । विद्रुता महत्तेजेन भीताश्च वरवर्णिनि ॥ ५६ ॥ मांगल्यञ्चोर्ध्वरुपं मे न च विन्दति मोहिताः । ततः स्तुवन्ति मां भीता भक्तिमास्थाय निश्चिताः ॥ ६० ॥ दिव्यं वर्षं सहस्रन्तु ऋक्साम यजुषः स्तवैः । ततस्तुष्टस्तु वीरेश स्वरूपं दर्शितं मया ॥ ६१ ॥ कपालमालिनं भीमं खट्वांग करभास्वरम् । सर्पेर नन्तकल्पैश्च कोटिचक्रं करालिणम् ॥६२॥ पश्यन्ति तत्रमनसः दंष्ट्राश्च क्षुरितं मुखम् । मा भीषेदं मया चोक्त ं पृच्छन्ति व्रतमुत्तमम् ॥६३॥ किमेतदद्भ ुतं रूपं किमेतद्भूषणं विभो । किमेतद्राजते व्योम्नि त्रिशिखं शूलमुज्ज्वलम् ॥६४॥ उत्तमागं शुभं कस्य यत्ते करतले स्थितम् । ततोऽहं प्रत्युवाचेदं तयोर्दर्पहरं वचः ॥६५॥ अनेक मुण्डकोटिभिर्येयं माला विभाति च । तदीयैस्तनूभिर्ब्रह्म विनष्टस्य पुनः पुनः ॥ ६६ ॥ यानि चान्यान्यनेकानि ' ग्रीवाहस्तकटिस्थिताः । नारायणस्य तनवो विनष्टस्य पुनः पुनः ॥६७॥ याश्चत्तद्दक्षिणे हस्ते खट्वांगं नाम विश्रुतम् । अस्योत्पत्ति विधास्यामि शृणुष्वेकमना विभो ॥ ६८ । प्रतीते युगकोट्यैस्तु श्रहं योगमुपागतः । चिन्तयामि शिवं देवं यत्तत् कारणमुत्तमम् ॥ ६६ ॥ यावत्तस्मिन् समुत्पन्नो योगविघ्नोऽतिदारुणः । ततो माया सुरुष्टेन हुंकारेण निपातितः ॥७०॥ उक्तश्च त्वं महाबाहो खं विभागे जनार्दन । विघ्नेशस्य महाविघ्नं कृत्वा मोक्षं गमिष्यसि ॥७१॥ १, यदेतदक्षिण हस्ते ग । ४२५
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy