________________
देवीपुराणम्
सौम्यं च कान्तं शशिकुन्दधवलं पश्चिमबदनं सितवृषगमनम् । सिततनुरुद्रां त्रिशूलजटिलां त्रिनयनसौम्यां वरुणेन नुताम् ॥१४॥ त्रिभुवनव्यापीं त्रैलोक्यनमितं ' क्षिति- जल पवन हुताशननिलयम् । अनेकरूपमनेकवाचं पिनाकपारिंग शिवं नमामि ॥१५॥
सौम्यमुखमुत्तराश्रयं संस्थितवदनं शुभ्र कटाक्षम्,
गौरमुखं दर्पणवलय विभूषित बाहुन् ।
पीताचिवपुषं मुकुटमणिकुण्डलाश्चितकायम्,
विविध कुसुमोर्चाच मुकुटसुचरित वरदे रुद्र पातु सदा ।। १६ ।। ऋग्यजुः सामवेदं सौम्यमुखं पूर्ववदनम् ।
हुतकनकसदृशं शशिरवि - बिम्वनिभम् ॥ १७ ॥ .
रक्तकाया रक्तोष्ठी या विकट मुकुटा, रक्ताक्तनयना या रक्ताम्बरधारिणी रुद्रा । त्रिशूलपरशुगदां मुद्गर - भुसुण्डि — प्रसिचक्रधरं प्रणतोऽस्मि सर्वदा ॥ १८ ॥ रथगमना प्राग्दिशव्यापी अनेकरूपा, कुण्डलकनकविभूषित काया प्रमथवृन्द परिसंस्तुता । रूपधारिणः सर्वे जगताय हिताय भूतसंघपरिवारिता सिद्धयक्षपरिवन्दिता ॥ १६ ॥ रुद्र नित्यं त्रिदिवं पातु कृष्णमुखं पिंगलकेशं दंष्ट्राविषमम् । अघोरचक्र' भ्रकुटीतटं भीषण नादं जिहवा करालं ज्वलितमुखम् ॥२०॥ रुद्रा भीमा उग्ररूपा घनतिमिर निभा ज्वलितनयना उद्यतत्रिशूला । विकृतारावा विकृतगमना प्रणतोऽस्मि सर्वदा ॥ २१ ॥
८
इति श्रीदेवीपुराणे द्वितीयः पादः ।
१. वैलोक्यपितरम् क।
२. शिवाय क ख ग ।
४. मुकुटसुचरित क ग ।
६. सदा ख।
८. द्वितीयः पादः इति ग पुस्तके नास्ति ।
३. सु कयक्षम् ।
५. शशिपदं नास्ति क ग पुस्तके ।
७. क ग पुस्तके श्लोकोऽयं नास्ति ।
४११