________________
षोडशाधिकशततमोऽध्यायः।
वशिष्ठ उवाच । कस्य छिद्रं भवेद् ब्रह्मन् तपस्य चरतो विभो। यस्मिन् विघ्नः समुत्पन्नः सर्वदेवभयावहः ॥१॥
मनुरुवाच । ब्रह्मणः सृष्टिकामस्य युगादौ चरतस्तपः । तपसामनुविद्धस्य महामोहः प्रजायत ॥२॥ तस्य मोह'प्रमुग्धस्य नष्टसत्त्वस्य गो द्विज । अवज्ञां शिवविष्णूनां कृत्वाहमिति देवता ॥३॥ कर्ता प्रहञ्च भोक्ता च नान्योऽस्तीति सोऽब्रवीत् । ततोऽहसत् सुरेशानो यमवक्त्रेण दारुणम् ॥४॥ ततो ज्वाला समुत्पन्ना तस्मिन् घोरो महाबलः । कृष्णाञ्जननिभाकारो रक्ताभ्रो रक्तलोचनः ॥५॥ च क्रपाणितौ स्त्रिशूली च तर्ज मानः पितामहम् । भयं जग्मुः सुरा सर्वे दानवाना सुखावहः ॥६॥ तयोर्युद्धं सहस्रन्तु वर्षाणां ब्रह्मदैत्ययोः । न निजितो यदा सोऽरि ब्रह्मणा सत्त्वरूपिणा ॥७॥ तदा नारायणो जग्मुर्यत्र देव उमापतिः । खट्वा विनाशहेत्वर्थं सृजमानो महावलाम् ॥८॥ देवीं त्रिशूलिनी भद्रां महारौद्री कपालिनीम् । पिंगाक्षी भाविनी जम्भां सुजंभा विकृताननाम् ॥६॥ स्वागतं ते तदा दृष्ट्वा भक्त देवं जनार्दनम् । शिवस्य मतिमाविश्य गान्धर्व गोतमुद्यतः ॥१०॥
विष्णुरुवाच । ओंकारमूत्तिसंस्थं तु मात्रात्रयविभूषितम् । कालातीतं वरदं वरेण्यं गोपेन्द्रक संस्तुतं वन्दे ॥११॥
वां दु स्वारं स्वारं जगति परन्तं वारं वारं वलितं स्वारम् । प्रोंकारमयं ऋक्साममयं मन्त्रार्थतत्त्वसुविदितपरमम् ॥१२॥ सुश्रमे वचनं सुसोमपुजं यज्ञपरिपठितं-हवि-हव्यं होमम् । कुश-चर-मंजुल यजमानमयं, यज्ञाधिपतिं नमामि परमं शिवम् ॥१३॥
१. मोहात् मुग्धस्य ख। ३. अतेदितपरमम् क।
२. हर्ता क। ४. सुराणाञ्च ख।