________________
पञ्चदशाधिकशततमोऽध्यायः ।
वशिष्ठ उवाच ।
तुष्टे विनायके विष्णो ह्यभिषिक्ते गजानने । किं कुर्वन्देवराजेन्द्रः किम्वा शंकर केशव ॥१॥
मनुरुवाच ।
पुरस्कृत्य तदा देवं गजवक्त्रं महाबलम् । विघ्नस्य घातनार्थाय प्रययावर्बुदाचलम् ॥२॥ यत्रासौ दनुशार्दूल सर्वदेव - भयावहः । प्रयुतोच्छ्रयमानेन योजनायाम' विस्तरः ॥३॥ दशांशेन च पादन्तां पद्मानि नव सप्त च । तथा तं सहसा दृष्ट्वा गजवक्त्र ेण दानवान् ॥४॥ मायामयानि शत्र णामयुतानि प्रचक्रिरे । श्रात्मनः समवीर्याणि सर्वशास्त्रविदानि च ॥५॥ कृत्वा तु तथा योधान् संग्राममभवन्महत् । दानवैर्नि जिताः सर्वे विध्नजैर्गजवाहिनी ॥६॥ देवाः पश्यन्ति संत्रस्ताः यदि भग्नो विनायकः । तदा न जानीमः कस्माद्रक्षा शक्रस्य संगरे ॥७॥
देवेन शूलिना तस्मात् वज्रिणा चक्रिणा तथा । मुक्तानि दिव्यान्यस्त्राणि तथा तेनैव शामितः ॥ ८ ॥ विवृद्धमन्युः संरब्धो गजेन्द्रः पुनरुद्यतः । तथा विनायकः क्रुद्धो गृहीत्वा शंकरायुधम् ॥ ॥
विघ्नस्य चिच्छिदे कर्त्तं विघ्नान् पापान् निवारयेत् । विघ्नान् पाशेन रोधित्वा सर्वांस्तानपि घातयेत् ॥१०॥ स्वयं हत्वा महावीर्यं तपच्छिद्र - समुद्भवम् । इन्द्रस्य च विपुलं राज्यं प्रददावभयं सुरान् ॥११॥ इति श्री देवीपुराणे विघ्नवधो नाम पंचदशाधिकशततमोऽध्यायः ४.
१. योजनापादविस्तरः ख । ४. इन्द्रस्य च रिपुं राज्यं ख ।
२. पंक्तित्रयं ख पुस्तके नास्ति ।
४. ग्राद्य देव्यवतारे विघ्नवधः क ग ।