________________
चतुर्दशाधिकशततमोऽध्यायः ।
मनुरुवाच ।
दत्ते विष्णा वरे ब्रह्मन् प्रतिपन्ने च वेदने । दुर्हरब्रह्माणं वासवादित्य चन्द्रमाः ॥१ ॥ तुतोष विधिवत्भक्त्या पूजयित्वा यथाक्रमम् । ईश्वरो ददते पूर्वमर्धचन्द्र महोदयन् ॥२॥ ब्रह्मणा मेखला शुभ्रा भानुना चारुविभ्रमम् । विष्णुना शंखशाङ्ग वासवो वज्रमुत्तमम् ॥३॥ यमो दण्डं विचित्रन्तु गदां धनदपाम्पती | अंकुशं पाशखडगञ्च रक्षेन्द्रो गमनं पुनः ॥४॥ दिग्गजानथ नागैश्च कटकाकटिसूत्रकैः । नक्षत्रा गण्डमालादि मातर आत्मतुल्यतान् ॥५॥ उमा देवी तु विज्ञानं शंकरो भोगमुत्तमम् । पितरो ग्रहरक्षाणि वह्निना च यथाक्रमम् ॥६॥ ऊर्जस्तेजश्च सिद्धिश्च योगिभिः प्रतिपादिता । ऋषिभिर्नदशैलैश्च समुद्रश्च तथा पुनः ॥७॥ उपप्लव च गाम्भीर्यं विधिवत् प्रतिपादितम् । एवं कृत्वा ततस्तस्य शंकरादि महाप्रभाम् ॥८॥ दत्तानि दिव्य चास्त्राणि समन्त्राणि वृतानि च । अभिषिक्तः शिवेनास्य सर्वेषां नायको भवान् ॥ ६ ॥
भवति सर्व कार्येषु त्वं च देवेषु नायकः ।
विनायकेति देवानां लोके ख्याति वजिष्यसि ॥ १० ॥
इति श्री देवीपुराणे विनायकाभिषेकवरदानं नाम चतुर्दशाधिकशततमोऽध्यायः * ।
१. आद्य हरब्रह्माणो ख ।
३. धनददम्पती क ।
५. आद्ये विनायकाभिषेके वरदानम् के ग
२. क पुस्तके पद्यमिदं नास्ति।
५. ख पुस्तके पंक्तिरियं नास्ति ।
进