________________
देवीपुराणम्
राजते सकलपर्वतसानु कण्ठ, चण्डाति-नूपुर-ध्वनिमुखरं विभ्रान्तन्' ।
तस्मै नमामि सततं जगतो हिताय, विघ्नेश्वराय वरदाय वरप्रदाय ॥ ८ ॥ वामै हस्त सततं कृतलड्डूकाय, सिद्धार्थकं सुरभिगन्धविलेपनाय । ब्रह्म ेन्द्र-चन्द्र-वसु-शंकर - संस्तुताय,
गंगाजलौघ इव दानमहाप्रदाय ॥ ॥
इष्टार्थफलमीहितप्रदाय शिवाय, सम्पूजयस्व े मम देवशुभं शुभाय ।
विघ्नं विनाशय प्रभो सुरसिद्धचन्द्र, शक्रस्य व्याधितदिवस्य शुभं प्रयच्छ ॥१०॥ स्तुत्वा तु शक्तितनयं प्रयतेन विष्णो, तुष्टः समीहितवरं ददते च तस्य ।
विष्णोस्तवार्थमिदं शैलवरं हरेण सम्प्रेषितो रिपुहराय पुरन्दरस्य ॥११॥ मयोच्यतां वद भवान् किमहं करोमि, त्रैलोक्यनिर्जितरिपुं तवाहं वदामि ।
श्रुत्वैवं तदा देवं विष्णुना प्रभविष्णुना, तुतुष्ट वरदोभूतो विघ्नस्य निधनाय च । १२ । इति श्री देवीपुराणे विनायकस्तवो नाम त्रयोदशाधिकशततमोऽध्यायः ४ 1
१. वितान्तम् ।
३. यायाच्यताम् कगं ।
२. सम्पूरय क ।
४. विनायकस्तवः क ग ।
४०७